पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४१

पुटमेतत् सुपुष्टितम्

रामाष्टप्रासः। आलोप्य नाशयित्वा चित्रकृल्लीला सन् अभ्यर्णगतान् समीपस्थान् ऋषीन् निजतनुश्रीलो- भिचित्तान् व्यधात् । कालोद्यत्कमलेक्षणः प्रातःकालविकसितारविन्दनेत्रः भवदवज्वा- लोत्यसंतापहृत् त्रैलोक्यप्रभुः पूषकुलभूः सूर्यवंशोत्पन्नः एषः रामः मे हृदि आलोक्यते ॥

भक्तं कन्दफलादिरत्नमकुटीरिक्तं जटालं शिरः
शक्तं नाम विशुद्धये शरधनुर्युक्तं च पाणिद्वयम् ।
रक्तं नेत्रयुगाञ्चलं निखिलमप्युक्तं विदं लक्षणं
व्यक्तं मत्कुलदैवतस्य भुवने नक्तंचरद्रोहिणः ॥ ७१ ॥

मत्कुलदैवतस्य रामस्य नक्तंचरद्रोहिण- भक्तं अन्नं कन्दफलादिरत्नमकुटीरिक्तं शिरः जटालं जटाभरितं नाम अभिधा विशुद्धये [स्मर्तृणां ] विशुद्धये शक्तं पाणिद्वयं च शरध- नुर्युक्तं नेत्रयुगाञ्चलं रक्तं निखिलं इदं उक्त लक्षणं भुवने व्यक्तम् ॥

भिन्तामन्तरिदं निरन्तरमियं चिन्ता वृथा चेतसः
संतापं च तनोतु मुञ्चतु मुदं किं तावता मे मनः ।
संतानद्रुमभीप्सितार्थघटने यन्तारमम्भोनिधे-
र्हन्तारं दशकन्धरस्य भजते तं ताटकारिं यतः ॥ ७२ ॥

अन्तः अन्तःकरण मिन्तां भेदयतु इयं चिन्ता निरन्तरं सर्वदा वृथा चेतसः संताप च तनोतु । मे मनः मुदं मुञ्चतु तावता किम् । न किमपीत्यर्थः । यतः ईप्सितार्थघटने संतानद्वुमं अम्भोनिधेः यन्तारं दशकन्धरस्य हन्तारं तं ताटकारि भजते ।।

मित्रं यस्य च चित्रभानुतनयः पत्रं च शत्रुजयं
पुत्रं चाह जनः कुशं लवमपि क्षत्रं च 1जात्यञ्चितम् ।
सत्रं त्राणपदं च कस्यचिदृषेश्छत्रं तदेकं सितं
चित्रं धन्व च दापितं जितवता वृत्रं स पातु प्रभुः ॥ ७३ ॥

यस्य चित्रभानुतनयः सुग्रीवः मित्रम् । पत्रं च वाहनं च शत्रुजयं गरुडः । 'पत्रं तु वाहने पणे पक्षे च शरपक्षिणोः' इति विश्वः । पुत्रं कुशं लवमिति आह (लोके) क्षत्रं जात्यञ्चितम् । कस्यच्वद्दषेः विश्वामित्रस्य सत्रं यागः त्राणपदं छत्रं तत् एकं प्रसिद्ध सितं यस्मै वृत्रं तदाख्यमसुरं जितवता इन्द्रेण । चित्रं शत्रुसंहारक्षमं धन्व च धनुश्च दापितं दत्तं सः प्रभुः पातु ॥

यद्रागस्य पदं विदेहतनया रुद्रायुधध्वंसना-
दुद्रावं विरचय्य येन पिदधे छिद्राणि या रोदसोः ।
भद्रायास्त्वरुणान्वयार्णवतमोनुद्रावणे सा रणे
निद्रामक्षयिणीं समर्पितवती मुद्रा खरद्रोहिणी ॥ ७४ ।।

१. 'जात्याञ्चितम्' इति पाठः,