पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४६

पुटमेतत् सुपुष्टितम्

बद्धादरः सन् अहं हे विभो, ते आसेवनं न चैव कृतवान् । अधुनातिधोरनरकात् त्रासे सति हे रघुपते, त्वां आसेदुषः प्रपन्नस्य मम दासेषु कर्तु व्यासेधः निषेधः क्षमः किम् ।

विद्धा य: कुहनामृगं विरहितं वध्वा निरीक्ष्योटजं
बुद्ध्वा पक्षिमुखात्प्रियां रिपुहृतां बद्धवालिमम्मोनिधौ ।
रुद्धा शत्रुपुरीं प्लवंगमभटैः क्रुद्ध्वा रणायागता-
न्युद्धवारीनजयत्स मे रघुपतिर्विध्वाकृतिः स्याद्गतिः ।। ८९॥

यः कुहनामृगं मारीचं विद्ध्वा वध्वा सीतया विरहितं उटजं निरीक्ष्य पक्षिमुखात् जटायुषो मुखात् प्रियां रिपुहृतां रावणहतां बुद्ध्वा ज्ञात्वा अम्भोनिधौ आलि सेतुं बद्ध्वा शत्रुपुरीं लङ्का प्लवंगमभटैः रुद्ध्वा रणाय आगतान् अरीन् क्रुद्ध्वा युद्ध्वा अजयत् सः विध्वा- कृतिः विष्णुरूपी । 'विक्षुः श्रीवत्सलाञ्छनः' इत्यमरः । रघुपतिः गतिः स्यात् ॥

विध्वादित्यविलोचन: समिति यो विद्ध्वा बलात्कैटभं
मध्वाधातमपि प्रकल्प्य जलधौ दध्वान शङ्खं वहन् ।
लब्ध्वा जन्म रघोः कुले निहतवान्व्यध्वावतीर्णस्थितिं
वध्वामोषकमाशरं हरतु मे स ध्वान्तमन्तर्गतम् ॥ ९0 ॥

विध्वादित्यविलोचनः चन्द्रसूर्यलोचनः यः समिति बलात् कैटभं विद्ध्वा हत्वा मध्वा- घातमपि तदाख्यासुरवधमपि प्रकल्प्य जलधौ शङ्ख बहन् दध्मौ । रघोः कुले जन्म लब्ध्वा सन् व्यध्वावतीर्णस्थितिं दुर्मार्गगामिनं वध्वामोषकं सीतापह्रर्तारं आशरं रावणं निहतवान् जधान सः मेऽन्तर्गतं ध्वान्तं पापं हरतु प्रार्थनायां लोट् ॥

वीरेऽप्यर्पितशासनो नृपरिपौ यो रेणुकासंभवे
यो रेजे दशकंधरस्मयहरं तारेशमप्यर्दयन् ।
पारेसिन्धु निशाचरा: समिदलंकारेण येनाहता
नौरतस्य कथा भवाब्धितरणे सारेति मोदामहे ॥ ९१ ॥

यः नृपरिपौ रेणुकासंभवे वीरेऽपि परशुरामेऽपि अर्पितशासनः । यः दशकंधरस्म- यहरं तारेशमपि वालिनमपि अर्दयन् पीडयन् । येन पारेसिन्धु निशाचराः रावणादयः रामिदलंकारेण युद्धवीरेण । येनेत्यस्य विशेषणमेतत् । एतस्य रामस्य कथा भवाब्धितरणे सारा दृढा नौः इति मोदामहे ॥

वेदान्ते हृदि यद्भजन्ति मुनयो नादान्तवेद्यात्मकं
खेदान्ताय कृतस्तवं शतमखश्रीदान्तकाम्भोधिपैः ।
वेदाङ्गोपममैथिलीकुचतटस्वेदाम्बुलेशाङ्कितं
मोदाम्भोधिविहारदं मनसि तत्पादाम्बुजं पातु माम् ॥१२॥