पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५०

पुटमेतत् सुपुष्टितम्

न त्रायतां किंतु सुत्रामप्रमुखैः मरुद्भिः इन्द्रादिदेवैः सत्रा साकं जवात् एयिवान् आगतः सन् यत्र यस्मिन् लोके नरकाः निरयाः नारकिजनाः तत्रापि नः त्रायताम् ॥

संजातं सवितुः कुलादुपनिषत्कुजाधिवासिद्विपं
मञ्जानं वपुषा नवाम्बुदमहापुञ्जावलेपं भजे।
मञ्जावर्पितहस्तमस्ततटिताशिञ्जारुचा कार्मुके
कंजानुक्रियमाणलोचनरुचिं तं जानकीवल्लभम् ॥ १०३ ।।

सवितुः सूर्यस्य कुलात् संजातं उपनिषत्कुञ्जाधिवासिद्विपं उपनिषद्रहस्यवासिनं वपुषा शरीरेण नवाम्बुदमहःपुञ्जावलेपं नीलाम्बुदकान्तिपुञ्जगर्व भञ्जानं तिरस्कुर्वन्तं अस्ततटिता तटितोऽपि अधिककान्त्या शिञ्जारुचा ज्याकान्त्या मञ्जौ मनोज्ञे कार्मुके धनुषि अर्पितहस्तं कंजानुक्रियमाणलोचनरुचि कंजं पद्मं तं जानकीवल्लभं रामं भजे।।

संजज्ञे शुभधीः सकृद्दिविषदा म़ञ्जन्रिपूनायुधं
गुञ्जच्छिञ्जिनि संहितेषु च वहन्कंजच्छदाक्षो हि यः।
संजल्पं निगमैः शिरीषसुमनःकिञ्जल्करेणुद्युतिं
तं जप्याख्यमुमाधवेन करुणापुञ्जस्वरूपं भजे ॥ १०४ ॥

शुभधीः शुभं जगतां कर्तुं धीः यस्य तथोक्तः । दिविषदां देवानां रिपून् भञ्जन् गुञ्ज- च्छिञ्जिनि ज्याशब्दयुते धनुषीत्यध्याहर्तव्यम् । संहितेषु बाणं आयुधं चापादि च वहृन् कंजच्छदाक्षः पद्मपत्राक्षः यः संजज्ञे निगमैः संजल्प्यं शिरीषसुमनःकिञ्जल्करेणुद्युतिं उमा- धवेन जप्या आख्या यस्य तं करुणापुञ्जस्वरूपं दयाराशिरूपं भजे ॥

साधारण्यलसत्कृपो नतिकरे साधावसाधावपि
क्रोधाकृष्टधनुश्च्युतास्त्रशिखिनामेधायमानाम्बुधिः ।
आधारो यशसामवाप्तसरयूरोधामखानां विधौ
मेधामेधयतु स्तुतो रघुपतिर्मे धातृमुख्यैः सुरैः ।। १०५ ।।

नतिकरे नम्र साधौ असाधावपि साधारण्यलसत्कृपः साधारण्येन सामान्येन । निर्वि- शेषेणेति यावत् । लसन्ती कृपा यस्य स तथोक्तः क्रोधाकृष्टधनुश्चयुतास्त्रशिखिनां क्रोधेन कोपेन आकृष्टं यत् धनुः तस्मात् च्युतस्य अस्त्रस्य आग्नेयास्त्रस्य शिखिनां एधायमाना- म्बुधिः एधायमानः काष्ठवत् आचरितं अवाप्तसरयूरोधामखानां सरय्वाः रोधा तटं तत्र मखा यागाः । सप्ततन्तुर्मखः ऋतुः' इत्यमरः । अवाप्ताः सरयूरोधामखाः यैस्ते । दीक्षि. तानामित्यर्थः । विधौ करणविषये आधारः धातृमुख्यैः ब्रह्मादिभिः सुरैः स्तुतः रघुपतिः रामः मे मेधां प्रज्ञां एधयतु वर्धयतु ।।