पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मीमांसमानं निगमार्थवर्तनीरनुद्विजित्री समितेः शुचाथ सा। कार्श्ये दधत्यार्तिभरात्प्रणत्य तं जगद्धिते जाग्रतमार्चिचद्गिरा ॥३॥ अथ सा तं प्रणत्य गिरा आर्चिचत् स्तुतवती । निगमार्थवर्तनीः वेदार्थमार्गान् मीमां- समानं जगद्धिते जाग्रतं तात्पर्यवन्त शुचा हेतुना समितेः सभायाः अनुद्विजिनी भयं अगमयन्ती आर्तिभरात् पीडातिशयेन हेतुना कार्श्ये दधतौ --अनुद्विजित्रिति : ओ वि. जी भयचलनयो । ततस्तृच् । इडागमः। 'विज इट्' इति इडादेस्तृचो ङित्वात् 'किङितिच' इति गुणाभावः। अदेङ्गुणः' इति गुणसंज्ञा । 'ऋन्नेभ्यो ङिप्' इति ङिप् । मीमांसमानमिति । 'मान पूजायाम्' । 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' इति मानेर्जिज्ञासायां सनभ्यासस्येकारस्य दीर्घश्च । दधतीति । 'डुधाञ् धारणपोषणयोः' । लट् । 'जुहोत्यादिभ्यः श्लुः' इति शपः लुः । 'प्रत्ययस्य लुक्श्लुलुपः' इति श्लुसंज्ञा । श्लौ' इति द्विवचनम् । 'उगितश्च' इति ङिप् । 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायाम् । 'नाभ्यस्ताच्छतुः' इति नुमभावः । आर्चिचत् । 'अर्च पूजायाम् । चुरादिः । लङि चङ् । 'चङि' इति द्विवचनम् । तच्च 'अजादेर्द्वितीयस्य' इति द्वितीयस्यैकाचः स्यात् । तत्र 'नन्द्राः संयोगादयः' इति रेफस्य न भवति । 'हलोऽनन्तराः संयोगः' [इति सं- योगसंज्ञा । जाप्रतमिति । 'जागृ निद्राक्षये । लटः शता 'जक्षित्यादयः षट्' इत्यभ्यस्त- संज्ञायां नुमभावः ॥ रजोगुणेनोर्णविता निज महो धियं दधद्विश्वसतत्त्वदृश्वरीम् । सिसृक्षितं संतनुषे त्वमीक्षया विभो कथं नूर्णुवितासि मे शुचम् ॥४॥ हे विभो, त्वं सिसृक्षितं स्रष्टुमिष्टं विश्वं ईक्षया ईक्षणेन संकल्पमात्रेण संतनुषे करोषि तथा सति मे शुचं कथं नु ऊर्णवितासि छादयितासि । रजोगुणेन निजं महः तेजः ऊर्णविता छादयिता विश्वसतत्त्वदृश्वरीं विश्वस्य सतत्त्वं पारमार्थिकं रूपंद्रष्ट्रीं धियं दधत॥- ऊर्णवितेति । 'ऊर्गुञ् आच्छादने । 'विभाषोर्णोः' इतीडादेः प्रत्ययस्य वा ङित्वम् । डित्वे उवड्। अडित्वे गुणः । संतनुषे इति । 'थासः से' 'सार्वधातुकमपित्' इति ङित्वे विकरणस्य गुणाभावः । सिसृक्षित मिति । 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सन् । सतत्त्वदृश्वरीमिति । 'दृशेः क्वनिप्' 'वनो र च' इति डीपि रेफादेशः । परमेश्वरस्य जगत्सिसृक्षात्मिका मायावस्था ईक्षणकामतपोवि. कीर्षादिशब्दरधीयते 'स ऐक्षत' इत्यादयः श्रुतयः॥ बहून्युदित्वा खलु या बभूव युद्दिवीह ये चक्रभृता निजघ्निरे । मयि द्विषस्ते जनिमेत्य तन्वते तनुं वृषस्य द्विपदीमनङ्घ्रिकाम् ॥ ५ ॥ बहूनि वक्तव्यानि उदित्वा उक्त्वा खलु या युत् युद्धं तारकामयाख्यं दिवि बभूव इह युधि ये चक्रभूता निजघ्निरे ते द्विषः असुराः मयि लोकरूपिण्यां जनिं जन्म एत्य वृ-