पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । 'पुच्छादुदसने पर्यसने चा' इति णिड् । द्विदाम्नीरिति । 'दामहायनान्ताच्च' इति संख्यादेर्ङिप् । घटोघ्निरिति । ऊधसोऽनङ्' समासान्तः । 'बहुव्रोहेरूधसो ङिष्' द्युघ्निरिति । 'संख्याव्ययादेर्ङिप्' इति संख्यादित्वाद् ङिप् ॥ विमिश्रयन्विश्वमिदं यशोभरैः पेपीयमानैर्भगवान्भुजंगराट । अमर्षितस्यापदि नो मधुद्विषस्तस्यानियत्वेन जनुर्ग्रहिष्यते ॥ १७ ॥ भुजंगराट् अनन्तो भगवान् तस्य मधुद्विषो अग्रिवत्वेन अग्रजत्वेन जनुर्जन्म ग्रहीष्यते । पेपीयमानैः क्रियासममिहारेण वर्धमानैर्यशोभरैरतिशयितैर्यशोभिः इदं विश्वं विमि- श्रयन् मिश्रं कुर्वन् नोऽस्माकमापदि अमर्षितस्य अक्षान्तस्य । विमिश्रयन्निति । 'मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तभ्यो णिच्' इति करणे णिच् । पेपीयमानैरिति । धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' पौनःपुन्यं भृशार्थों वा क्रियासमभिहारः। 'लि. ज्यडोश्च' इति धातोः पीआदेशः । 'भूषस्तितिक्षायाम्' इति सेटो निष्ठाया मि] । कि- स्वाभावात् गुणः । अप्रियेति । 'घच्छौ च' इत्याशब्दाद्भावे घः ॥ चक्रम्यमाणानसद्ध्वनौजसा शोशूयमानान्समरे जिघांसतः । तान्दन्दशकान्सहकृत्वरीहरेर्मायाग्र्यधाग्र्येष्यति नन्दतो जनिम्॥१८॥ माया हरेः सहकृत्वरी सहकारिणी सती नन्दतो नन्दगोपात् जनि जन्म एष्यति । दन्दशूकान हिंसान असुरान् समरे जिघांसतः असध्वना दुर्मार्गेण चङ्कम्यमाणान् कौटिल्येन गच्छतः ओजसा शोशूयमानान् भृशं वर्धमानान् अग्र्यधम्नि अग्र्यं श्रेष्ठ धाम प्रभावो यस्याः ॥-चक्रम्यमाणानिति । 'क्रमु पादविक्षेपे । 'नित्यं कौटिल्ये गतौ' इति गत्यर्थात् कौटिल्य एव यङ् । 'नुगतोऽनुनासिकान्तस्य' इत्यभ्यासस्य नुक् । दन्दशूकानिति । 'दंश दंशने। 'लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्' इति धात्वर्थगीयामेव यड् । 'यजजपदशां यडः' इत्युकः । अग्र्यधाम्नीति । 'अग्राद्यत्' 'तत्र भवः' इत्यर्थे 'अन उपधालोपिनोऽन्यतरस्याम्' इति वा ङिप् । 'अल्लोपोऽनः', 'अलोऽन्त्यात्पूर्व उपधा', 'अदर्शनं लोपः' । शोशूयमानानिति । 'विभाषा श्वेः' इति लिड्यडोर्वा संप्रसारणम् । 'शेश्वी- यमानान्' इति वा पाठः॥ उद्द्योतितं येन विपत्तमःसु वः प्रागप्यतिप्रद्युतितस्य शार्ङिणः । तस्याद्य नः पालयितुं ब्रजेत गां साहायकेनैधयितुं मुदं सुराः ॥१९॥ हे सुराः, यूयं साहायकेन सहायेन व्यापारेण तस्य शार्ङिणः मुदं एधयितुं वर्धयितुं गां भुवं ब्रजेत गच्छेत । येन शार्ङिणा वः विपत्तमःसु विपत्खेव तमाःसु प्रागपि उद्दयोतितं प्रज्व- लितं अत्यन्ततेजखिना भूतं अद्य नः पालयितुं अतिप्रद्युतितस्य अतिशयेन प्रयोतितुमार- ब्धस्य ॥ उद्द्योतितमिति । 'द्युती दीप्तौ । भावे क्तः । उदुपधाद्भावादिकर्मणोरन्यतर- स्याम्' इति सेटो निष्ठायाः पक्षे कित्वाभावः। प्रद्युतितस्रेत्यादिकर्मणि कित्त्वपक्षः । पाल- यितुमिति । सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वववर्मवर्णचूर्णचुरादिभ्यो णिच्' इति