पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ काव्यमाला। ध्यते । पतिवनीति । पतिशब्दान्मतुप् । 'अन्तर्वत्पतिवतोर्नुक् । नान्तत्वादुगित्वान्ङिप् । पत्नीति । 'पत्यु! यज्ञसंयोगे" इति पतिशब्दस्य नकारः, नान्तत्वान्डीप् ॥ प्रवाय कीर्ति सिचयं दिशोऽमुना प्रवाय सम्यक्परिवीय वा दिवम् । बभूव राजन्सहजोऽस्य देवकः प्रज्याय सन्तं सुजनं निषेविता ॥२५॥ अस्य उग्रसेनस्य सहजो देवको बभूव । कीर्ति सिचयं वस्त्रं प्रवाय । अमुना सिचयेन दिशः प्रवाय आच्छाद्य दिवं च सम्यक् परिवीय परिवीतां कृत्वा राजन् दीव्यमानःप्र. ज्याय सन्तं जरद्भूय दर्तमानं सुजन निषेविता वृद्धसेवकः ॥-प्रवायेति । 'ल्यपि च' इति वेजः संप्रसारणाभावः। प्रज्यायेति । 'ज्या वयोहानौ' । 'ज्यश्च' इति त्यपि संप्रसारण- प्रतिषेधः । प्रवायेति । वेनः संप्रसारणे 'व्यश्च' इति ल्यपि संप्रसारणाभावः । परिवीयेति । 'विभाषा परेः' इति वेलो ल्यपि संप्रसारणम् । 'हलः' इति दीर्घत्वेन तुग् बाध्यते ॥ पूतक्रतायीं च मनुं च मानवी वृषाकपायीं च करिष्यती तिरः। उल्लालसामास गुणैरकृत्रिमै रतेः सपत्नीव सुतास्य देवकी ॥२६॥ अस्य देवकस्य देवकी नाम सुता उल्लालसामास भृशं शुशुभे । अकृत्रिमैः खाभा- विकैर्गुणैरेतास्तिरकरिष्यती तिरः कर्तुमारब्धा । पूतकतायीं पूतक्रतोरिन्द्रस्य स्त्रियं शचीं मनुं मनोः स्त्रियं शतरूपां च, मानवीं मनोः रुधपत्यं देवहूतिम् , वृषाकयायीं वृषाकपः स्त्रियं च श्रियं गौरी वा । रतेः सपत्नीव तया सदृशी ।।-उल्लालसामासेति । लसः (8) 'कास्प्रत्ययादाममन्ले लिटि' इति लिटि आम्प्रत्ययः । 'कास्यनेकाच इति व- क्तव्यम्' । 'चुलुम्पाद्यर्थः । सपत्नीति । 'नित्यं सपत्न्यादिषु' इति निपात्यते । समानः प. तिरस्या इति विग्रहः । पतिशब्दस्य नकारः । समानस्य सत्वं ङिप् । पूतकतायीमिति । 'पूतक्रतोरै च' इति ङिप् । ऐकारादेशश्च । वृषाकपायीमिति । 'वृषाकप्यग्निकुसितकुसि- दानामुदात्तः' इति ङीवैकारादेशौ । 'हरविष्णू वृषाकपी' 1 मनुमिति । 'मनोरौ वा' इति डीप्सहितयोरौकारैकारयोरभावे पाक्षिके रूपम् । मानवीमिति । मनोरपत्यमित्यण् । दे- वकीमिति । देवकस्यापत्यं देवकी । 'अत इन्', 'संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः। 'इतो मनुष्यजातेः' इति ङीप् । देवकी ।। गार्गीव विज्ञानचणा यशश्चयैः श्येनी: कटाक्षोष्ठमृदुस्मितैर्दिशः । गौरीगरिष्ठा शबलीवितन्वती सैधांबभूवाद्भुतकामनीयका ॥ २७ ॥ सा देवकी एधांबभूव ववृधे । गार्गी गर्गस्य गोत्रख्यपत्यमिव विज्ञानचणा ज्योतिषा- दिज्ञानेन प्रसिद्धा। यशश्चयैः दिशः श्येनीः श्वेतवर्णाः वितन्वती। कटाक्षोष्ठमृदुस्मितैः दिशः शबलीः चित्रवर्णा वितन्बती । गौरीगरिष्टा गौरीव गुरुतरा । अद्भुतकामनीयका । कामनीयकं कमनीयत्वम् ॥ -एधांबभूवेति । 'इजादेश्च गुरुमतोऽनृच्छः' इति आम् । आमो मित्वमदन्तत्वात् 'आमः' इति लुक् । कृत्संज्ञायां प्रातिपदिकत्वे सु, तस्य 'अव्य-