पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । शसिचतियतिजनीनामुपसंख्यानम्' इति यत् । सुशस्येति । 'शसिटुहिगुहिभ्यो वेति वक्तव्यम्' इति क्यप् । 'अनिदितां-' इति नलोपः । कुस्तुम्बु इति । 'कुस्तुम्बुरूणि जातिः' इति सुट । अपरस्परानिति । 'अपरस्पराः क्रियासातये' इति सुट् । आश्चर्येति। "चरेराडि चागुरौं' इति यप्रत्यये 'आवर्यः' | 'आश्चर्यमनित्ये' इति सुट् निपात्यते । क- याशुभीयमिति । 'मतौ छः सूक्तसाम्नोः' इति मत्वर्थे छः । आदिमेति 'आदेश्चेति व- तव्यम्' इति मः । माधुरेणेति 1 मधुरामभिनिष्कामति । 'अभिनिष्कामति द्वारम्' इत्यण । मधुरामभिनिष्क्रामतीत्यत्र द्वारं करणं खातन्त्रयेण विवक्ष्यते । क्षौदेति । क्षुदान- मरवटरपादपादञ्' तेन कृते संज्ञायाम् । वीवधिकानिति । 'विभाषा विवधवीवधात्' इति छन् । तेन जीवतीत्यर्थे । विश्नेति । 'यजयाचयतविच्छप्रच्छरक्षो नड्' इति नडि छोः शू --' इति शः । 'शात्' इति चुत्वाभावः । ऋयिकानिति । वस्नायविक्रयाह' तेन जीवतीत्यर्थे । राम्भेति । रम्भशब्देन वंशो चोध्यते ततोऽण् । विचक्षणेति । 'चक्षितः ख्याञ्' इत्यत्र 'असनयोश्च प्रतिषेधो वक्तव्यः' इति ख्याअभावः ॥ दर्पोल्ललद्विक्रममाणवाहां स्वपस्कराकाक्षसुरथ्यरथ्याम् । व्यवस्करामेत्य पुरीमवोचच्छौरि हरिश्चन्द्रसक्षमेवम् ।। ८ ॥ स गर्गः पुरी मथुरामेत्य शौरि वसुदेवं एवं अवोचत् । दर्पोल्छसद्विक्रममाणवाहां वि. क्रममाणाश्चरन्तो वाहा अश्वा यस्याम् । स्वपस्कराकाक्षसुरथ्यरथ्याम् स्वपस्करा शोभ- मानरधाजयुक्ता अकाक्षा कुत्सिताक्षरहिता सुरथ्या शोभनै रथ्यै रथं वहद्भिरश्वर्युक्ता रथ्या रथसमूहो यस्याम् । व्यवस्कर पुरीषाद्यमेध्यरहिताम् । हरिश्चन्द्रसदृक्षम् ॥---विक्रममा- गति 'वेः पादविहरणे' इति तड् । व्यवस्करेति । 'वर्चस्केऽवस्करः' इति सुद् । स्वपस्क- रेति । 'अपस्करो रथाङ्गम्' इति सुट् । हरिश्चन्द्रेति । 'प्रस्कण्वहरिश्चन्द्रावृषी' इति सुट् । काक्षेति । 'का पथ्यक्षयोः' इति कोः कादेशः ।। बृहस्पती वत्स धियोप यस्त्वं कृत्ये स नोपक्रमसे किमर्थम् । पुष्योऽद्य नः पुंसवनस्य कालः प्राप्तश्च पौपेऽहनि तद्विधेयम् ।। ९ ।। रे वत्स, यः धिया वृहस्थतौ उप सुराचार्यादधिकः रा त्वं किमर्थं कृले वस्तुनि विपये न उपक्रमसे आरमसे । अद्य पुष्यः नः पुंसवनस्य कालः प्राप्तश्च । तत् पौषे पुष्ययुक्तचन्द्रयुक्ते अहनि तत् विधेयम् ।।--उपक्रमस इति । श्रोपाभ्यां समर्थाभ्याम्' इति तङ्। पुष्ये इति । 'पुष्यसिध्यौ नक्षत्रे इति क्यप् । 'नक्षत्रेण युक्तः कालः' इत्यण । 'यस्येति च' इत्सलोपः । "पुष्यतिध्ययोनक्षत्राणि यलोपो वक्तव्यः' । पुष्य इति । 'लुचविशेषे इत्यणो लुम् । 'लुपि युक्तवद्यक्तिवचने' । कृत्ये इति । 'विभाषा कृवृषोः' इति क्यम् । वृहस्वताविति । 'पार- स्करप्रभृतीनि च संज्ञायाम्' 'तहतोः करपत्योश्वोरदेवतयोः सुट तलोपश्च । वृहन्तो देवाः उपेति। 'उपोऽधिके च' इति कर्मप्रवचनीयत्वे 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । स्तोकापरुष्टोऽपि कर्षन्नवध्यान्यो यातुधर्मा क्रमते मुमूर्षन । कंस: क्रियाणां सहसाकृतानां फलानि भोक्ता स पचेलिमानि ॥१०॥