पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। स इति । अवीवचच उक्तवांध । हे मिन्न बन्धो, त्वं व्यथा मा तथाः कार्षीः । ससुतः युग्येन वाहनेन यायाः गच्छ । समीनि वर्धितुमिच्छन् । वां युवयोः अनष्टमः आत्म- जन्मा पुत्रः मम भीतेः अपादानं हेतुः न अश्रावि ॥-युग्येति। 'युग्यं च पत्रे' इति युजेः क्या कुत्वं च । अवीवचच्चेति । 'वच परिभाषणे'। युजादिः । तथा इति । 'तनादिभ्यस्त- थासोः' इति वा सिचो लुक् । समीसनिति । 'ऋधु वृद्धौ'। संपूर्वः सन् । 'सनीवन्तर्ध- भ्रस्जदम्भुधिस्वयूर्णभरज्ञपिसनाम् इति पक्ष इडभावः । 'अजादेर्द्वितीयस्य' इति र्धशब्दस्य द्विवचनम् । आप्शप्यधामीत्' इतीत्वं रपरम् , अभ्यासलोपः । 'खरिब' इति चत्वम् । लटः शता॥ संपावदन्तैव गुणांस्तवार्या विप्रावदन्तेह न केऽपि साधो । आलाप्यभाजां वचसां तथैषां ममाधुनैवान्ववदिष्ट चेतः ॥१७॥ हे साधो, आर्याः तब गुणान् संप्रावदन्त एव । इहगुणेषु विषये न केऽपि विप्रावदन्त विरुद्धमवदन् । तथा आलाप्यभाजां आलापनाभाजां एषां जनानां वचसां मम चेतः अधुनैव अन्ववदिष्ट अनुवादमकार्षीत् । अनुः सादृश्ये ।-संप्रावदन्तेति । 'व्यक्तवाचा समुच्चारणे' इति तड् । अन्ववदिष्टेति । 'अनोरकर्मकात्' इति तद् । विप्रावदन्तेति । 'वि- भाषा विप्रलापे' इति तड्। आलाप्येति । 'आसुयुवपिरपिलपित्रपिचमच' इति व्यत् ।। अवश्यलाव्या दिविजा ममाघ ये खेचरी वाचमुदैरिरंस्ताम् । नूनं गृहेशूर इतीमके मां क्षिपन्ति वर्षेजजलानिवार्यम् ।। १८ ॥ अद्य मम दिविजा देवा अवयलाव्या अवश्यमुच्छेदनीया ये तां खेचरी वाचं अशरी- रवाचं उदैरिरन् उदीरितवन्तः । इसके कुत्सिता इमे मां गृहेशूर इति क्षिपन्ति । तून वर्षजजलानिवार्य वर्षे जायते यजलं तेनानिवार्यम् ॥-अवश्यलाच्या इति । 'ओरावश्य- के इति ण्यत् । मयूरव्यंसकादिसमासः । 'लुम्पेदवश्यमः कृये' इति मलोपः । खेच. रीमिति । 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । दिविजा इति । 'प्राट्शर- कालदिवां जेइति अलुक् । वर्षेजेति । “विभाषा वर्षक्षरशरवरात्' इत्यलुक् ॥ अवागिरन्तैव यकृन्ति नृणां ये पूतनाद्या यमशिश्रियंस्ते । वाणीमकाय: प्रसितस्य तस्य न चेतसा संगिरते स्म शौरिः॥ १९॥ शौरिः तस्य तादृशस्य कंसस्य वाणी चेतसा न संगिरते स्म नाङ्गीकृतवान् । ये नृणां यकृन्ति एव कालखण्डान्येव अवागिरन्त भक्षितवन्तः, ते पूतनाया यं अशिश्रियन् आश्रितवन्तः । अकायैः प्रसितस्य अकार्येषु प्रसक्तस्य ॥-अनागिरन्तेति । 'गृ निगरणे । 'अवादः' इति तड् । संगिरत इति। 'समः प्रतिज्ञाने' इति तड् । अशिश्रियन्निति। "णि- श्रिद्रुक्षुभ्यः' इति चड्। अकारिति । 'ऋहलोपॅतू' । 'भसितोत्सुकाभ्याम्-' इति तृतीया ॥