पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। हसन्नवश्यायकरं प्रभाभिवं नृणामुत्पथनायनायम् । तमित्थमुद्दीप्य गृहात्तदीयान्मार्ग ग्रहाणां मुनिराटिटीके ॥ ३७॥ मुनिस्तमित्थमुद्दीप्य तदीयान् गृहात् ग्रहाणां मार्गमाटिटीके प्राप्तवान् । प्रभाभिर- वश्यायकरं हिमकरं हसन् । नृणां दावं परितापकम् । उत्पथनायनायं पन्थानमुत्कान्तो यो नायः नयः तस्य नायं नेतारं प्रापकम् ॥---अवश्यायेति । 'श्यैड् गतौ'। 'श्याश्यधा- खुसंस्वतीणवसावलिहश्लिषश्वसश्च' इति णः । दावं नाय इति । 'दुन्योरनुपसर्गे इति गः । ग्रहाणामिति । 'विभाषा प्रहः' इति णः । जलचरे ग्राहः । ज्योतिषि अहः । गृहा- दिति । गेहे कः' इति कर्तरि कः । [ आटिटीके इति । टीक गत्यर्थः। [लिट् ॥ स्वर्गाथकानां प्रथमेऽथ तस्मिन्विच्छायिते पाणिविषक्तवीणे । मानुष्यकं नर्तकगायकायं मुक्त्वान्तरानभ्र ततः सभायाम् ॥३८॥ तस्मिन् विच्छायिते गते सति स नर्तकगायकाचं मानुध्यकं मनुष्यसमूहं मुक्त्वा ततः तस्याः सभायाः अन्तः पुरमानन गतवान् । स्वर्गाधकानां स्वर्गायकानां प्रथमे । याणि- विषक्तवीणे पाणिविषक्ता वीणा यस्य ---नर्तकेति । 'शिल्पिनि चुन्। 'ऋतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्'। गाथकानामिति । 'गस्थकन्' इति गायतेः शिल्पिनि थकन् । गायनेति । ‘ण्युट च' । गायतेः शिल्पिनि । विषक्तवीणे इति । स्त्रियाः पुंवद्भाषितपुंस्का- दनूड् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु' इति पूर्वपदस्य पुंचद्भावः । तत इति । 'तसिलादिष्वाकुत्वसुचः' इति पुंवद्भावः । मानुष्यकमिति । 'प्रकृत्याके राजन्यमनुष्ययु- वानः' इति प्रकृतिभावेन 'आपत्वस्य च' इति यलोपाभावः ।। विपक्षलावस्य निजस्य शत्रोरह्नाय भूत्वा लवको बहूनि । संजीवकोऽहं बत हायनानि भूयासमाशंसत चेतसेति ॥ ३९ ॥ स चेतसा इत्याशंसत इष्टवान् । अहं अह्राय झटिति निजस्य शत्रोः [ लवक: उच्छे- दको भूत्वा बहूनि हायनानि संवत्सरान् संजीवकः भूयासं बत इति ॥---हायनानीति । 'हश्च ब्रीहिकालयोः' इति जहावेः काले ण्युट् । लवक इति । 'सुल्वः समभिहारे बुन्' इति साधुकारिणि वुन्। संजीवक इति । 'आशिषि च' इति धातुमात्रादुन् । विपक्षला- वस्येति । 'कर्मण्यम्' इति विकार्ये कर्मणि उपपदे ॥ श्येनायते यद्यशसा त्रिलोकी दिगन्तमायेन तमोपहेन । तं शूरसूनुं सहजाययोगः कारोपरोधं निगलैरसेष्ट ॥ ४० ॥ तं शूरसूनुं वसुदेवं [जायया देवक्या सह] कारोपरोधं कारायामुपरुध्य निगलैरशेष्ट अबध्नात् । उग्रः । यद्यशसा यस्य शूरसूनोर्थशसा त्रिलोकी श्येनायते श्येनी धवलेवाच- रति । दिगन्तमायेन दिगन्तान् मिमानेन परिच्छिन्दता । तमोपहेन दुरितं नता ॥-दि-