पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । गन्तमायेनेति । 'हावामश्च' इत्यण । तमोपहेनेति । 'अपे क्लेशतमसोः' इति हन्तेर्डः। श्ये- नायत इति । 'क्यड्मानिनोश्च' इति पुंवद्भावः । असेप्टेति । 'षिञ् बन्धने' । लुङ् ॥ स तामसीबुद्धिररुध्करोक्तिः प्रणाशिकावृत्तिरथो तदीयम् । कोपोत्थदुष्प्रेक्षमुखीतनुक्शिशुं प्रसह्याच्युतशङ्कयाहन् ॥ ४१ ॥ अथो स द्राक् तदीयं शिशुमच्युतशङ्कया प्रसह्य अहन् हतवान् । तामसीबुद्धिः तमो. गुणविकाररूपा बुद्धिर्यस्य । अरुध्करोक्तिः अरुष्करी बाधाविधायिनी उकिर्यस्य प्रणा- शिकावृत्तिः जनानां प्रणाशयित्री वृत्तिर्यस्य । कोपोत्थदुष्प्रेक्षमुखीतनुः कोपोत्थानेन दुर्निरीक्षवदना मूर्तिर्यस्य ॥-प्रणाशिकावृत्तिरिति । 'न कोपधायाः' इति पुंवद्भावप्रति- षेधः । तामसीबुद्धिरिति । वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' इति पुंवत्वाभावः। कोपोत्थेति । 'सुपि स्थः' इति योगविभागाद्भावे कः । दुप्रेक्षमुखीतनुरिति । 'खासाचे- तोऽमानिनि' इति पुंवत्त्वाभावः ॥ पुलोमजाजानिमुदोऽवसायो गोदं फलद्वैनयिक स्वतातम् । जनस्य शोकापनुदं स बड्वा परम्परीणां श्रियमन्वबोभूत् ॥ ४२ ॥ स स्वतातमुग्रसेनं बद्धा परम्परीणां परांश्च परतरांश्चानुभवन्ती क्रमप्राप्तां अन्वबोभूत भृशमन्वभवत् । पुलोमजाजानिमुदः पुलोमजा जाया यस्य तस्येन्द्रस्य मुदः अवसायः अ- वसानकरः। गोदं गा ददतम् । फलदैनयिकं फलत् वैनयिक विनयो यस्य । जनस्य शो- कापनुदं शोकमपनुदन्तम् ॥ अवसाय इति । 'श्यायधास्रसंस्त्रतीणवसा-' इत्यवपूर्वात् 'षो. ऽन्तकमणि' इत्यतो णः गोदमिति । 'आतोऽनुपसर्गे कः' । शोकापनुदमिति । 'तुन्दशो- कयोः परिमृजापनुदोः' 'आलस्यसुखाहरणयोरिति वक्तव्यम्' इति कः । पुलोमजाजा- निरिति । 'जायाया निड्' समासान्तः । 'संज्ञापूरण्योश्च' इति न पुंवत्वम् । वैनयि- केति । 'विनयादिभ्यष्टक' खार्थे । परम्परीणामिति । 'परोवरपरम्परपुत्रपौत्रमनुभवति' इति खः॥ साधिष्ठसंतापकनीतिशाली धियो यदून्साध्वितरा दधानान् । सुखप्रदान्भागवतांश्च नृणां गोसंख्यवर्गीयजनं च सोऽद्वेट् ॥ ४३ ॥ स यदून् भागवतान् भगवद्भक्तिर्येषां तांश्च गोसंख्यवर्गीयजनं च अद्वेट् द्वेष्टि स्म । साधिष्ठसंतापकनीतिशाली साधिष्ठाः साधुतमाः तेषां संतापिकी संतापाय समर्था या नितिः तद्वान् । साध्वितरा अतिशयेन साध्वीः धियः दधानान् नृणां सुखप्रदान् ॥--- [प्रदानिति। दाज्ञः' इति कः । गोसंख्येति । 'समि ख्यः' इति कः । गोसंख्यवर्गी- येति । 'वर्गान्ताच्च' इति छः । संतापकनीतीति । 'पुंवत्कर्मधारयजातीयदेशीयेषु' इति पुं- वत्त्वम् । साध्वितरा इति । 'वोतो गुणवचनात्' इति डीप् । घरूपकल्पचेलब्रुवगोत्रम- तहतेषु डयोऽनेकाचो ह्रस्व.' । 'तरप्तमपौ घः' । भागवतानिति । 'भक्तिः' इत्यण् ।।