पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। भावे परस्मैपदम् । भान्तीति । 'शेषात्कतरि परस्मैपदम्' । अन्वकरोदिति । 'अनुपराभ्यां कृमः' इति परस्मैपदम् । श्रमोदविन्द्विति । 'मन्थौदनसस्तुविन्दुवज्रभारहारवीवधगाहेषु च' इति बा उदादेशः । आसेत्सव्ययम् ॥ सुखाहरैर्वमहरैः सगभ्यः प्रलम्बमुख्यैश्च सहाश्रवैस्तैः । अभिक्षिपन्नक्षमकोऽर्चनाहन्दृिष्ट्वा स्वसुर्दीप्तिमखिन्त कंसः ॥ ५९॥ कंसः खसुर्दीप्तिं दृष्ट्वा अखिन्त खिन्नोऽभूत् । सगभ्यतृभिस्तैः प्रलम्बमुख्यैश्च सह अर्चनाहन् । पूजामर्हतः अभिक्षिपन् अभिभवन् । सुखाहरैः सुखहरणशीलैः वर्महरैः कवचं हतु संभाव्यमानवयोभिः ॥ आश्रवैः वचनस्थितैः । अक्षमक: न विद्यमाना क्षमा यम्य ॥–अभिक्षिपन्निति । 'अभिप्रत्यतिभ्यः क्षिपः' इति परस्मैपदम् । वर्महरैरिति । 'यति च' इत्यच् । सुखाहरैरिति । 'आडि ताच्छील्ये' इत्यच् । अर्चनाहानिति । 'अहः' इत्यच् । दीप्तिमिति । 'क्तिनाबादिभ्यः' । सगभ्यरिति । 'सगर्भसयूयसनुताश्चत्' भवेऽर्थे । समाने गर्ने भव इति 'समानस्य च्छन्दसि' इति सः ॥ प्रोवाह चिन्तां परिमृष्यति स्म देवाय कार्याद्विरराम भीतः । उपारमत्स्वान्न स दानमानै: सदोपरेमे विषयोपभोगात् ॥ ६॥ स सदा भीतश्चिन्तां प्रोवाह बभार, दैवाय परिमृध्यति स्म असूयति स्म, कार्यात् विरराम उपरतव्यापारोऽभूत् , दानमानैः खान् ज्ञातीन नोपारमत् नावारयत्, विषयोप- भोगात् उपरेमे निववृते॥-प्रोवाहेति । 'प्राद्वहः' इति परस्मैपदम् । परिमृष्यतीति । 'परे- मुंषः' इति परस्मैपदम् । विररामेति । 'ब्याड्परिभ्यो रमः' इति परस्मैपदम्। उपार- मदिति । 'उपाच' सकर्मकात् परस्मैपदम् । उपरेम इति । विभाषाकर्मकात्' इति परस्सै- पदविकल्पः । कार्यादिति । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इत्यपादानसंज्ञायां पञ्चमी ॥ न बाजथान्यद्य वधामुष्याः स्थेष्ठं यशो मे तनयं तु जातम् । विनाशयिष्यामि तदैव प(क)क्त्वेत्यासीदसौ तत्प्रसवप्रतीक्षः ॥ ६१ ॥ अहमद्यामुष्या वधात् मे स्थेष्ठं स्थिरतरं यशो न वाजयानि कम्पयानि । जातं तनयं तु तदैव प(ब) क्त्वा गत्वा विनाशयिष्यामि इति चिन्तयन् असौ तत्प्रसवप्रतीक्षः तस्याः प्रसवं प्रतीक्षमाण आसीत् ॥-प्रतीक्षमाणेति । 'ईक्षिक्षमिभ्यां चेति वक्तव्यम्' इति गः । वाजयानीति । वा मतिगन्धनयोः' । 'वो विधूनने जुक्' इति णौ जुगागमः। निगर- मचलनार्थेभ्यश्च' इति परस्मैपदम् । प(ब)क्त्वेति । प(व)ञ्चुचवादयो गत्यर्थाः ॥ उद्बोधयन्नुक्तिभिरप्रमादं सोऽतिष्ठिपच्चाप्रसवात्तदन्ते । अशीतक रक्षिजनं तथापि त्रासो मनस्तस्य पराचकार ।। ६२॥ तदन्ते तस्याः समीपे आ प्रसवातूं प्रसवपर्यन्तं रक्षिजनं अतिष्ठिपत् स्थापयामास ।