पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१००

पुटमेतत् सुपुष्टितम्
९४
काव्यमाला ।

यस्मिञ्जम्बुक्षितिरुहचया धारयिष्यन्ति सान्द्राः
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५६ ॥

श्रुत्वायान्तं द्रुतमुपगतास्तत्र बन्दिव्रजा ये
त्वां यावन्तः प्रथितयशसं येऽर्थिनो दौःस्थ्यदीनाः ।
तान्कुर्वीथाः समभिलषितार्थप्रदानैः कृतार्था-
नापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५७ ॥

आकर्ण्याद्रिप्रतिरवगुरुं वानरास्त्वत्सकाशे
क्रोधाताम्रास्ततमुखरवं तत्र येऽभिद्रवन्ति ।
तान्योघानां विमुखय पुनर्दारुणैर्ज्यानिनादैः
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५८ ॥

तस्मिन्नद्रौ निवसति विभुः स स्वयंभूर्भवो वा
देवः सेवापरसुरगणैर्वन्द्यपादारविन्दः ।
यद्ध्यानेनापहृतदुरिता मानवाः पुण्यभाजः
संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५९ ॥

नीपामोदोन्मदमधुकरं गुञ्जनं गीतरम्यं
केका वेणुक्वणितमधुरा बर्हिणां चारु नृत्यम् ।
श्रोत्रानन्दी मुरजनिनदस्त्वत्प्रयाणे यदि स्या-
त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ६० ॥

तस्माद्गच्छन्नथ पथि भवान्वीक्षिता वेणुनाख्यं
शैलं नीलोपलपरिचयाशेषसानूच्छ्रयं तम् ।
व्याप्याकाशं नवजलभृतां संनिभो यो विभाति
श्यामः पादो बलिनियमनायोद्यतस्येव विष्णो ॥ ६१ ॥

तांस्तान् ग्रामानपि शुचिगिरिं दक्षिणेन व्यतीत्य
द्रष्टास्यग्रे सितमणिमयं सौधसंघं स्वपुर्याः ।
क्रान्त्वा वप्रं वियति विशदैः शोभते योंऽशुजालै
राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२ ॥