पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११२

पुटमेतत् सुपुष्टितम्

प्रभातप्रोन्मीलकमलवनसंचारसमये
शिखाः किंजल्कानां विदधति रुजं यत्र मृदुलाः ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८॥

स्मितज्योत्स्नामज्जट्विजमणिमयूखामृतझरै-
र्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः ।
अमन्दं स्यन्दन्ते वदनक्रमलादस्य कृतिनो
विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥९॥

शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ
विधायोर्धं बिन्दुं स्फुरितमिति वीजं जलधिजे ।
जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटा-
मदभ्राम्यद्भुङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥ १० ॥

स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥ ११ ॥

हरन्तो निःशकं हिमकरकलानां रुचिरतां
किरन्तः खच्छन्दं किरणमयपीयूषनिकरम् ।
विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा
ममान्तः संतापं तव चरणशोणाम्बुजनखाः ॥ १२ ॥

मिषान्माणिक्यानां विगलितनिमेषं निमिषता-
ममन्दं सौन्दर्यं तव चरणयोरम्बुधिसुते ।
पदालंकाराणां जयति कलनिकाणनपटु-
रुदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३ ॥

मणिज्योत्स्नाजालैर्निजतनुरुचा मांसलतया
जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।