पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११३

पुटमेतत् सुपुष्टितम्

भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचा
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥ १४ ॥

हरद्गर्वं सर्वं करिपतिकराणां मृदुतया
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् ।
लसज्जानुज्योत्सातरणिपरिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥ १५ ॥

कलक्काणां काञ्ची मणिगणजटालामधिवह-
न्वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् ।
मुनिनातैः प्रातः शुचिवचनजातैरतिनुतं
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥ १६ ॥

जगन्मिथ्याभूतं मम निगदतां वेदवचसा-
मभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसंदेहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७ ॥

अनल्पैर्वादीन्द्ररगणितमहायुक्तिनिव है-
निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि ।
असख्यातिव्याख्याधिकचतुरिमाख्यातम हिमा
बलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥ १८ ॥

निदानं शृङ्गारप्रकरमकरन्दस्य कमले
महानेवालम्बो हरिनयनरोलम्बवरयोः ।
निदानं शोभानां निधनमनुतापस्य जगतो
जवेनाभीति मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥

गीरामुद्वेलां प्रथमरसकल्लोलमिलितां
विगाडं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं यावन्न्यस्यत्यहह विनिमनैव सहसा
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥ २० ॥