पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२२

पुटमेतत् सुपुष्टितम्

निःशङ्कं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः ।
यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नवनलिनीवनीमुपेयाः ॥ ३५ ॥

मधु नवसुधास्वादं तावन्निपाय्य निरन्तरं
निशि निशि निजकोडे कामं ययासि निवेशितः ।
स्मरसि किमु तामेतामद्य त्वदेकपरायणां
भ्रमर नलिनी दिक्षु भ्राम्यंल्लताशतलम्पटः ॥ ३६ ॥

इह रूपमात्रसारे चित्रकृते कनककहारे ।
न रसो नापि च गन्धो मधुकर बन्धो मुधा नमसि ॥ ३७ ॥

न चेतश्चाम्पेयस्तवकनिकुरम्बेऽभिरमते
समुत्कण्ठा काचिन्न च विकच'नागमुकुले ।
न मल्लीवल्लीनामपि मधुनि वाञ्छा मधुलिहः
समाघातो नूनं यदवधि लवङ्गीपरिमलः ॥ ३८ ॥

भ्रम खैरं भ्रातर्घमर नवंयूथीषु बहुशो
मधूलीमन्विष्यन्कुमुदवनवीथीषु विचर ।
वसन्तमारम्भस्फुरितमधुसंभारसुभगो
न ते विस्मर्तव्यः क्वचन सहकारव्यतिकरः ॥ ३९ ॥

आस्वाद्यत्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरै-
र्माकन्देन पिकान्प्रतारितवता मूर्धानमध्यासितः ।
प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी
माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न ते ॥ ४० ॥

नीरजान्यपि निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि ।
चञ्चलत्वमिह चञ्चरीक ते साहजं कथमिदं विमोक्ष्यसि ॥ ४१ ॥

पीतमत्र मधु यापिता क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् ।
हीयमानसुषमा हिमागमे पद्मिनी यदिह नावलोकसे ॥ ४२ ॥

एणीदृशः श्रवणसीम्नि यदानयन्ति
तेनैव तस्य महिमा नवचम्पकस्य ।