पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१२९

पुटमेतत् सुपुष्टितम्

राजीविनीविपिनसौरभसारगन्धि
योऽभूद्बसन्तदिवसेषु जनैकबन्धुः ।
रथ्यारजांसि विकिरन्विरुजन्नगेन्द्रा-
नुन्मत्तवद्रमति पश्यत सोऽद्य वायुः ॥ ९२ ॥

गन्धवाह गह्नानि गाहसे गन्धजातमिह संचिनोषि च ।
नैपुणच्युतिरियं च तावकी यन्न तत्र सदसद्विवेचनम् ॥ ९३ ॥

निधेः कलानामपि रीतिरेषा मर्माणि मे संस्पृशतीव भूयः ।
कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ ९४ ॥

रञ्जिता न ककुभो निवेशिता नार्चिषो बत चकोरचञ्चुषु ।
कष्टमिन्दुरुदयन्निपीयते दारुणेन तमसा बलीयसा ॥ ९५ ॥

लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि
श्यामासूक्तसुधासहोदरमधुप्रस्सन्दसंदोहिनि ।
जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रम-
स्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा तदस्तं गता ॥ ९६ ॥

श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि
नो पूर्णतापि जलधैरिह वर्णनीया ।
यद्वारि न स्पृशति हन्त पृथग्जनोऽपि
यस्यामृतैर्मखभुजोऽपि मुदं भजन्ते ॥ ९७ ॥

आरोपितः शिरसि यः स्वयमीश्वरेण
सिक्तः सदैव सुरशैवलिनीजलेन ।
न क्षामतां तदपि मुञ्चति सोऽयमिन्दु-
रेतद्व्यनक्ति दुरतिक्रममेव दैवम् ॥ ९८ ॥

इन्दोनिन्दतु नाम धाम नलिनी निन्दन्तु चक्राहृया
नैवानेन सुधाकरस्य सुषमा हानिर्न वा दुर्यशः ।
एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते
यज्योत्स्नासु चिरं चकोरपरिषच्चञ्चूपुटं न्यस्यति ॥ ९९ ॥