पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । अतिवितततनोरपरिच्छिन्न देहस्य । किंलक्षणेभ्यः । महद्भ्य: । येभ्यः सकाशात्प्रजाना- मादिसर्गे चतुर्थो वर्णः शूद्राख्यश्चरमतो वर्णत्रयोत्पत्त्यनन्तरमुदभूत् । अपि च येषाम- ङ्घ्रिपङ्केरुहाणां साहस्री संख्या प्रकटं स्फुटं सर्ववेदेष्वभिहिता । 'सहस्राक्षः सहस्रपात्' इत्यायेत्यर्थः । यैर्विश्वंभरा पृथिवी व्याप्ता पूर्णा ॥ विष्णो पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली । अस्माकं विस्मयार्हाण्यखिलमुनिजनप्रार्थनीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥ १५ ॥ सेयं विष्णोरङ्गुलीनां ततिः पङ्क्तिरस्माकं मङ्गलानि दद्यात् । किंभूता । आदौ भवाद्या पूर्वसिद्धा । भक्तानामखिलाभीष्टकारणभूतेत्यर्थः । अनवद्या निर्मला । अम्लानेत्यर्थः । अतिरुचिरा । या पादद्वयाग्रे विमला निर्मला ये नखमणयस्तैर्भ्राजिता सती राजते । राजीवस्य कमलस्य दलाली दलपङ्तिरिव । किंलक्षणा दलाली । रम्या । हिमजलानां कणिकाभिर्विन्दुभिरलंकृतान्यप्राणि यस्याः सा । किंलक्षणानि मङ्गलानि । विस्मयार्हा- ण्याश्चर्ययोग्यानि । अदृष्टपूर्वाणीति यावत् । तथाखिलमुनिजनप्रार्थनीयानि ॥ यस्यां दृष्ट्वामलायां प्रतिकृतिममराः खां भवन्त्यानमन्तः सेन्द्राः सान्द्रीकृतेर्ष्याः खपरसुरकुलाशङ्कयातङ्कवन्तः । सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न- श्चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥ १६ ॥ सा चक्रपाणेश्वरणनलिनयोर्नखाली नोऽस्माकं संपदं सद्यः साधयेत् । सकलान्यै- हिकामुष्मिकाणि सुखानि करोति ताम् । सातिरेकामधिकाम् । किंलक्षणा नखाली। चञ्चन्तः प्रसरन्तश्चारवो येंशवस्तेषां चक्रं समूहो यस्याः । यस्यां नखाल्याममलायां सेन्द्रा अमरा आनमन्तः सन्तः खां प्रतिकृतिं प्रतिबिम्बं दृष्ट्वा खपरसुरकुलाशङ्कया खप्रतिपक्षदेवसमूहभ्रान्या सान्द्रीकृतेर्ष्या अतिशयेर्ष्यायुक्ता आतङ्कवन्तः शङ्कानिमित्त- कभययुक्ताश्च भवन्ति ॥ पादाम्भोजन्मसेवासमवनतसुरव्रातभाखकिरीट- प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति । नम्राङ्गाणां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि- च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥ १७ ॥ हरेरिदं प्रपदयुगं पादाग्रद्वन्द्वं नोऽस्माकं पापमन्तं नाशं प्रापयेत् । कथंभूतानां नः । नम्राङ्गाणाम् । साष्टाङ्गं प्रणामं कुर्वतामित्यर्थः । किंलक्षणं प्रपदयुगम् । हरिदुपलो हरित-