पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३१

पुटमेतत् सुपुष्टितम्

हेलाक्षिप्तपदे पराक्रमनिघावुज्जृम्भमाणे हरौ
चित्रं सैव तदैव चित्रलिखितेवासीदरण्यस्थली ॥ १०८ ॥

माद्यत्कुञ्जरकुम्भकूटविगलन्मुक्तावदातान्तराः
किंचित्कोपकषायितेन मनसा येनाद्विपादाः कृताः ।
सोऽयं संप्रति दूषिकाकुलदृशा कष्टां दशामागतः
सिंहः पांसुभिरेणशावकखुरोन्मुक्तैः समाकीर्यते ॥ १०९ ॥

गर्भान्हठेन दलयन्ति करेणुकानां
गण्डूषयन्ति गजगण्डतटीमदाम्भः ।
यद्गर्जितानि जरया मुषितः स एव
कण्ठीरवः परिभवं सहते मृगेभ्यः ॥ ११० ॥

मीलितेक्षणयुगं विगाहसे वारणेन्द्र गहनं न वीक्षसे ।
अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ १११ ॥

शैवलानि शिरसा प्रतीच्छतः पद्भिरेव कमलानि लुम्पतः ।
स्वैरिणस्तव सरोविहारिणो वारणेन्द्र विदितो न वो नयः ॥ ११२ ॥

नैवावासमहीरुहं विरयल्लीलासरो न त्यज-
विश्लिष्यन्न करेणुकाभिरभितः श्लिष्यन्न वा कण्टकान् ।
एवं नाम विदूयते मरुमहीमासाद्य मध्यंदिने
संतप्तः कलभैर्यथा करिपतिः कान्तारगस्ताम्यति ॥ ११३ ॥

न स्वां करेणुमपि नापि निजान्किशोरा-
नात्मानमेष परिशोचति वारणेन्द्रः ।
दावाग्निमनतनुरत्र यथोपसन्ना-
न्दानार्थिनो मधुकरानधिरूढभावान् ॥ ११४ ॥

हेलाकुड्मलितेक्षणेन करटं कण्डूयतोन्मूलिताः
शाखाचुम्बितचन्द्रबिम्बवपुषो भूमीरुहो भूरिशः।
छिन्ना कुम्भविघट्टितैर्गिरितटी येनाद्य माद्यन्बला-
देरण्डे स कथं हि गण्डमिभराट् कण्डूयितुं काङ्क्षतु ॥ ११५ ॥