पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३२

पुटमेतत् सुपुष्टितम्

रे यूथनाथ गहनानि विगाहमानो
मनासि पादपशतानि भिनत्सि शैलान् ।
किं पौरुषाणि न वदामि हरेः परोक्षं
किं तत्समक्षमथ तानि पलायितानि ॥ ११६ ॥

लीयन्तां मशकास्तृणेषु विहगा गुच्छेषु गुल्मेषु वा
वल्लीषु भ्रमराः क्षुपेषु सृमराः श्वभ्रेषु च श्वापदाः ।
मध्येऽह्नि द्युमणौ महांसि खदिराङ्गारोपमान्युत्किर-
त्युत्तप्तस्य मरौ परं करिपतेर्नास्त्येव विश्रामभूः ॥ ११७ ॥

सरसि न सहसा विनिष्पतेस्त्वं बहिरमलं कलयन्विसारि वारि ।
द्विरदपरिवृढ प्ररूढपङ्के कति करिणोऽत्र मदालसा न मनाः ॥ ११८॥

आधोरणेन सुतरां च निपीडितोऽसि
धिक्छृङ्खलामपि हठादिह लम्भितोऽसि
श्वभ्रोदरे कलमलुब्धमना निपत्य
रे यूथनाथ सहसे बहुयन्त्रणानि ॥ ११९ ॥

साधो किमाधोरण यूथनाथमङ्गुष्ठकेनातितरां दुनोषि ।
नो चेदयं वेद निजानुभावं तज्ज्ञस्य ते कर्तुमिदं न युक्तम् ॥ १२०॥

तीर्णः कथं वनकिरातशराभिपाता-
न्मुक्तः कथं कथमपि क्षुधितात्तरक्षोः ।
दुर्दैववैभववशान्मृगशावकोऽय-
मुद्दामदावदहने गहने निममः ॥ १२१ ॥

कस्तूरिकाहरिण मुञ्च वनोपकण्ठं
मा सौरभेण ककुभः सुरभीकुरुष्व ।
आस्तां यशो ननु किरातशराभिपाता-
त्रातापि हन्त भविता भवतो दुरापः ॥ १२२ ॥

विलपति तनुते गतागतानि स्पृहयति न व्यथिता कुशाङ्कुरेभ्यः ।
अचकमत निरीक्ष्य रुद्धमेणी हरिणमरुंतुदजालबन्धनानि ॥ १२३ ॥