पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४०

पुटमेतत् सुपुष्टितम्

प्रभुप्रसादे सत्याशां न कुर्यात्स्वप्नसंनिभे ।
नन्देन मन्त्री निहितः शकटालो हि बन्धने ॥ ५५॥

न लोकायतवादेन नास्तिकत्वेऽर्पयेद्धियम् ।
हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ ५६ ॥

अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् ।
नहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ ५७ ॥

संधिं विधाय रिपुणा न निःशङ्कः सुखी भवेत् ।
संधिं कृत्वावधीदिन्द्रो वृत्रं निःशङ्कमानसः ॥ ५८ ॥

हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् ।
विदुरोक्तमकृत्वा तु शोच्योऽभूत्कौरवेश्वरः ॥ ५९ ॥

बह्वन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् ।
प्रभूताज्यभुजो जाड्यं दहनस्याप्यजायत ॥६० ॥

यत्नेन शोषयेद्दोषान्न तु तीव्रतैस्तनुम् ।
तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ६१ ॥

स्थिरताशां न बध्नीयात्भुवि भावेषु भाविषु ।
रामो रघुः शिविः पाण्डुः क्व गतास्ते नराधिपाः ॥ ६२ ॥

विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः ।
श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः ॥ ६३ ॥

नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात्प्रवादिताम् ।
शुक्रश्हाड्गुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥

न तीव्रदीर्घवैराणां मन्युं मनसि रोपयेत् ।
कोपेनापातयन्नन्दं चाणक्यः सप्तभिर्दिनैः ॥ ६५ ॥


१. 'योगनन्दोऽथ कूपान्तः शकटालं तमक्षिपत्' इति कथासरित्सागरे चतुर्थतरङ्गे २. इयं नहुषकथानुशासनिकपर्वणि शततमेऽध्याये द्रष्टव्या. ३. इयं वृत्रवधकथा शान्तिपर्वणि मोक्षधर्मे द्व्यशीत्युत्तरद्विशततमेऽध्याये द्रष्टव्या. ४. अग्नेः इयं कथा महा- भारत आदिपर्वणि त्रयोविंशत्युत्तरद्विशतमितेऽध्याये द्रष्टव्या. ५. 'अवश्यं हतनन्दो- ऽयं सप्तभिर्दिवसैर्मया । विनाश्यो बन्धनीया च ततो निर्मन्युना शिखा । सप्तमे दिवसे प्राप्ते पञ्चवं समुपागमत् ॥' इति कथासरित्सागरे पञ्चमतरङ्गे .