पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४२

पुटमेतत् सुपुष्टितम्

वीणाविनोदव्यसनी वत्सेशः शत्रुणा हृतः ॥ ७६ ॥

उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः ।
सूर्यो भार्याभयोच्छित्यै तेजो निजमशातयत् ।। ७७ ।।

पद्मवन्न नयेत्कोषं धूर्तभ्रमरभोज्यताम् ।
सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत्पुराम्बुधिः ॥ ७८ ॥

नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् ।
पार्थो विस्मृतगीतार्थः सासूयः कलहेऽभवत् ॥ ७९ ॥

न पुत्रायत्तमैश्चर्य कार्यमायः कदाचन ।
पुत्रातिप्रभुत्वोऽभूत्धृतराष्ट्रस्तृणोपमः ॥ ८० ।।

ने शत्रुशेषदूष्याणां स्कन्धे कार्यं समर्पयेत् ।
निष्प्रतापोऽभवत्कर्णः शल्यतेजोवधादितः ।। ८१ ॥

न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् ।
ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ ८२ ॥

श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् ।
दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मच्युतात्मनाम् ।। ८३ ॥

श्रियः कुर्यात्पलायिन्या बन्धाय गुणसंग्रहम् ।
दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ।। ८४ ।।

पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद्धृतम् ।
दानवानां विनष्टा श्रीरुच्छिष्टस्पृष्टसर्पिषाम् ।। ८५ ॥

प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् ।
ययातिः शुक्रकन्यायां सस्पृहो म्लेच्छतां गतः ।। ८६ ॥

रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् ।


१. इयं वत्सेशकथा कथासरित्सागरे द्वादशे तरङ्गे द्रष्टव्या. २. 'ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः । भ्रमिमारोप्य तत्तेजः शातयामास भारत ॥ इति हरिवंशे प्रथमपर्वणि नवमेऽध्याये. ३. अर्जुनस्य गीतार्थविस्मरणकथा महाभारते आश्वमेधिकपर्वण्यनुगीतायां प्रसिद्धा. ४. शल्यकृतकर्णतेजोवधकथा महाभारते कर्णपर्वण्यतिप्रसिद्धा. ५. देक- यान्याम्. E