पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४५

पुटमेतत् सुपुष्टितम्

यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो-
ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि ।
ज्ञातं त्वां दयितं समेत्य जलदा ये केशतामाश्रिता-
स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ॥ ५ ॥

त्वच्चक्षुः सवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो-
र्भाले च ब्रजनाथ नर्तनपरा ध्वान्तार्भकाः संततम् ।
निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु-
र्माद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६ ॥

त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना-
संभूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः ।
चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते
किं वा मारकतस्थले समुदितः कंदर्पवृक्षाङ्कुरः ॥ ७ ॥

त्ववल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः
कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे ।
लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति
प्रायः शत्रुसमाननाम्यपि जने क्रोधो यदूर्जखिनाम् ॥ ८॥

निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर-
ब्रीडावनकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका ।
दुर्मानप्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी
शृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भ्रूलता ॥ ९ ॥

नो कार्य श्रुतिवमलङ्घनमिदं नालीकमुग्धाकृतिः
पर्यन्ताकलनं विधाय सहजखच्छेन भाव्यं सदा ।
अन्तः कृष्णमुपास्य तद्रुचिमता संभावना सर्वतः
कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १० ॥


१. श्रुतिवर्तमनः श्रोत्रसीमायाः; (पक्षे) वेदमार्गस्य. २. नालीकस्य कमलस्यैव मुग्धा मनोहराकृतिः (पक्षे ) न अलीकेनात्येसन मुग्धा मूढाकृतिः. ३. कृष्णं कृष्णवर्ण स्व- ध्यभागस्थितम् ; (पक्षे) श्रीकृष्णम्.