पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४७

पुटमेतत् सुपुष्टितम्

नाशावंशगतं तमेव विशदं मुक्ताफलं ये विदु-
स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७ ॥

नेत्राम्भोजमुखेन्दुभालतिलकैर्नित्यं विवादो यतः
सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका ।
तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः
काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८ ॥

योऽहं ते पदपङ्कजातिलवं प्राप्याभवं पल्लवः
कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते ।
तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयं श्रुता-
वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९ ॥

हम्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका
जिह्वयं तव पद्मरागनिकरः शोणाधरो विद्रुमः ।
दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं
पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥२०॥

या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा-
मास्वायेह सरखती स्थितवती सत्यं रसज्ञेव सा ।
यत्सप्तखरमण्डलानि बहुधा त्वत्कण्ठदेशाङ्कहिः
प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१ ॥

साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि
क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते ।
दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज
व्यक्तं त्वच्चिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२ ॥

माधुर्यं न लवं मधूनि दधति द्राक्षा तु साक्षाद्विषं
पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः ।
प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं
गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३ ॥


१. ब्रह्मा. २. मधूनि लवं कणिकामात्रमपि माधुर्यं न दधति. १३ द्वि० गु०