पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । द्विवचनम् । देवो विष्णुर्ययोरूर्वोर्दैत्यं कैटभाख्यं मधुं चारोप्य जघानैव । कथंभूतौ । विधातुर्ब्रह्मणः सपदि खोत्पत्तिमात्रेण भीतिं विदधतौ । आरूढगर्वौ । कुन जघान । अधिजलधि समुदे ॥ पीतेन द्योतते यच्चतुरपरिहिते नाम्बरेणात्युदारं जातालंकारयोगं जलमिव जलघेर्वाडवाग्निप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ।। पीताम्बरस्य विष्णोरेतव्द्याख्यास्यमानविशेषणं जघनं सातत्येन चेतोविषयमवतरन्म- नोवृत्तिसमारूढं सत् । एनसः पापान्नोऽस्मान्पातु । कथंभूतादेनसः । अतिघनात् । अनेकजन्माभ्याससंचितादित्यर्थः । अत एव पातित्यदात् । किंलक्षणं जघनम् । मान- नीयं मानार्हम् । चतुरैरलंकरणकर्मकुशलमत्तैश्चतुरं यथा स्यात्तथेति वा परिहितेनास- जितेन पीतेन सुवर्णाभेनाम्बरेण वस्त्रेण जातालंकारयोगं सदात्युदारं यथा स्यात्तथा द्योतते प्रकाशते तदेतत् । वाडवाग्निप्रभाभिर्जलधेर्जलमिव ॥ यस्या दाम्न्या त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे- र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः । काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्रीं मम मतिमनिशं कम्ररूपा करोतु ॥ २२ ॥ विधाम्नो भगवतोऽहं यस्याः काञ्चया दाम्न्या रशनया तस्यैव जघनकलितया नित- म्बनिबद्धया भ्राजते सा काञ्ची मम मतिमनिशं सर्वदा कल्यां समां कल्याणदात्रीं म- ङ्गलकरीं करोतु । अन्धेः क्षीरसमुद्रस्य मध्ये स्थितो मन्दराद्रिर्भुजगपतेर्वासुकेर्महाभो- गेन पृथुदीर्घेण कायेन संनद्धं परिवेष्टितं मध्यं यस्यैवंविधो यथाभ्राजीत्तथा भ्राजते । किंलक्षणाञ्काची । काञ्चनाभा सुवर्णराजिकृतशोभा। मणिवराणां वज्रादीनां किरणैरु- ल्लसद्भिः प्रदीप्ता प्रकाशिता। अत एव कम्ररूपा कमनीयाकारा । पीताम्बरं हि तर- ङ्गितसमुद्रजलवत् , तदन्तराले भगवन्मूर्तिमन्दराचलवत्, तत्परिवेष्टनं काञ्चीदाम्नी वासुकिशरीरवत्, इति योज्यम् ॥ उन्ननं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । तस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य नामीसरसि वसतु नश्चित्तहंसश्चिराय ॥ २३ ॥ यत्र यस्मिनाभीसरसि तत्पयोजं कमलं पूर्वं सृष्टिकाल उदभूत्तस्मिन्नालीकाक्षस्य २ द्वि० गु०