पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१५९

पुटमेतत् सुपुष्टितम्

निद्राणे त्वयि शीतले तरुतले तल्पे दलैः कल्पिते ॥
संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः ।
रुद्ब्रह्ममहेन्द्रतर्जनविघौ गोपार्भकाणां कर-
व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥ ९४ ॥

स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः
सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनि रदः ।
यस्य त्वद्गुणगानमग्नमनसो व्यापादिते केशिनि
प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५ ॥

लक्ष्माणि ध्वजवजपङ्कजयवच्छत्रोर्ध्व लेखायुता-
न्यालक्ष्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽहाय यः ।
ध्यायत्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते
कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्याद्गान्दिनीनन्दनात् ॥ ९६ ॥

धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं
धन्या तेन वसुंधरा किमधिकं तेनैव धन्यं जगत् ।
यः कसैकनिदेशवयपि भवत्पादाम्बुजालोकना-
दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमनोऽजनि ॥ ९७ ॥

पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया स्वीकृते
गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि ।
जीयासुर्दयिताननेषु नितरां साकूतनृत्यांकुलाः
कालिन्दीसदृशाः सितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८॥

यो वाचो मनसोऽपि नैव विषयस्तं त्वां विधायात्मजं
याभ्यङ्गलपनाशनप्रभृतिभिः संलालयत्यन्वहम् ।
नो दानेन न चेज्यया न तपसा नो सांख्ययोगादिभि-
यल्लभ्यं तदवाप गोपदयिता सास्तां यशोदा मुदे ॥ ९९ ॥

पूर्णे दानपतेर्मनोरथशतैः सार्धं प्रलम्बारिणा
तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया स्वीकृते ।


१. अक्रूरः. १४ द्वि० गुरु