पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६३

पुटमेतत् सुपुष्टितम्

शिलास्तासां भेदकत्वेन टङ्कायमानं यत्पदं तस्मिन्संकाशमानाः सुमनसः पुष्पाणि तत्र झंकारिणी मृगततिर्यस्याः सा । पुनः कीदृशे । अङ्केनानुपेतो रहितो यश्चन्द्रस्तद्वत्सं- काशि वक्रकमलं यस्याः सा। निष्कलङ्कचन्द्रवद्रमणीयमुखाम्बुजेत्यर्थः । ताम् ॥

कुम्बावतीसमविडम्बा गलेन नवतुम्बाभवीणसविधा
शं बाहुलेयशशिबिम्बाभिराममुखसंबाधितस्तनभरा ।
अम्बा कुरङ्गमदजम्बालरोचिरिह लम्बालका दिशतु मे
बिम्बाधरा विनतशम्बायुधादिनिकुरम्बा कदम्बविपिने ॥ ७ ॥

 अम्बा शं म इह ददातु । कीदृश्यम्बा । कुम्बा कण्टका दिना भित्तिस्थाने कृतं सुग- हनमावरणम् । अरण्यवातिवात्सास्त्यस्य कुम्बावाञ्बरः । तस्य स्त्री कुम्बावती शबरी तया समस्तुल्यो विडम्बो यस्याः । शबर्यनुकारिणीत्यर्थः । पुनः कीदृशी । गलेन कला नवा चासौ तुम्बा तुम्बफलं तेनाभाति सा नवतुम्बामा सा चासौ वीणा च तया समाना विधाः स्वरप्रकारा यस्याः सा । वीणाखनतुल्यकण्ठरवेत्यर्थः । पुनः कीदृशी। कस्तूरीकर्दमशरीरकान्तिः । पुनः कीदृशी । लम्बालका दीर्घकेशा । बाहुलेयस्य कार्ति- केयस्य शशिबिम्बवदभिरामं मुखं तेन कृत्वा संबाधितः सुदृढमाकृष्टस्तनभरो यस्याः सा। बिम्बाधरा । पुनः कीदृशी । कदम्बविपिने शम्बायुध इन्द्र आदिर्येषां ते निकुरम्बा देवगणास्ते विनता यस्याः॥

इन्धानकीरमणिबन्धा भवे हृदयबन्धावतीवरसिका
संधावती भुवनसंधारणेऽप्यमृतसिन्धावुदारनिलया ।
गन्धानुभावमुहुरन्धालिवीतकचबन्धा समर्पयतु मे
शंधाम भानुमपि रुन्धानमाशु पदसंधानमप्यगसुता ॥ ८॥

 अगसुता पदसंधानं मय्यर्पयतु । कीदृश्यगसुता । इन्धन्ते प्रकाशन्ते, इध्यते प्रका- श्यते यैस्ते वा इन्धानाः। ते च कीरवर्णमणयो हरिन्मणयो गारुत्मताख्यास्तेषां बन्धो हाररचना यस्यां सा । यस्याः कण्ठ इत्यर्थः । पुनः कीदृशी । हृदयबन्धौ भवे शिवेऽतीव रसिका। भुवनसंधारणे लोकपालने संधावती प्रतिज्ञायुक्ता । पुनः कीदृशी । अमृतसि- न्धावुदारो महाभिलयो यस्याः सा । गन्धस्य अर्थादुपरिगुम्फितपुष्पाणाम् । अनुभा- घोऽनुभवस्तेन मुहुरन्धा मत्तास्ते च तेऽलिनो भ्रमरास्तैवीतो व्याप्तः कचबन्धो यस्याः सा। कीदृशं पदसंधानम् । शं सुखं तस्य धाम । 'शम्' इति सुखार्थेऽव्ययम् । पुनः कीदृशम् । भानुमपि रुन्धानम् । सूर्यादप्यधिकतेजस्वीत्यर्थः ॥

इति श्रीशंकराचार्यविरचितमम्बाष्टकं टिप्पणसहितं समाप्तम् ।

मुकुन्दमुक्तावलिः।

नवजलधरवर्णं चम्पकोद्भासिकर्णं
विकसितनलिनास्यं विस्फुरन्मन्दहास्यम् ।