पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६५

पुटमेतत् सुपुष्टितम्

फुल्लपुण्डरीकखण्डक्लुप्तमाल्यमण्डनं
चण्डबाहुदण्डमत्र नौमि कंसखण्डनम् ॥ ९॥

उत्तरङ्गदङ्गरागसंगमातिपिङ्गल-
स्तुङ्गशृङ्गसङ्गपाणिरङ्गनालिमङ्गलः ।
दिग्विलासिमल्लिहासिकीर्तिवल्लिपल्लव-
स्त्वां स पातु फुल्लचारुचिल्लिरद्य बल्लवः ॥१०॥

इन्द्रनिवारं व्रजपतिवारं निर्धुतवारं कृतघनवारम् ।
रक्षितगोत्रं प्रीणितगोत्रं त्वां धृतगोत्रं नौमि सगोत्रम् ॥ ११ ॥

कंसमहीपतिहृद्गतशूलं संततसेवितयामुनकूलम् ।
वन्दे सुन्दरचन्द्रकचूलं त्वामहमखिलचराचरमूलम् ॥ १२ ॥

मलयजरुचिरस्तनुजितमुदिरः पालितविबुधस्तोषितवसुधः ।
मामतिरसिकः केलिभिरधिकः सितसुभगरदः कृपयतु वरदः ॥ १३ ॥

उररीकृतमुरलीरुतभङ्गं नवजलधरकिरणोल्लसदङ्गम् ।
युवतिहृदयधृतमदनतरङ्गं प्रणमत यामुनतटकृतरङ्गम् ॥ १४ ॥

नवाम्भोदनीलं जगत्तोषिशीलं मुखासङ्गिवंशं शिखण्डावतंसम् ।
करालम्बिवेनं वराम्भोजनेत्रं धृतस्फीतगुजं भजे लब्धकुञ्जम् ॥ १५ ॥

हृतक्षोणिभारं कृतक्लेशहारं जगद्गीतसारं महारत्नहारम् ।
मृदुश्यामकेशं लसद्वन्यवेशं कृपाभिर्नदेशं भजे बल्लवेशम् ॥ १६ ॥

उल्लसदल्लवीवाससां तस्करतेजसानिर्जितप्रस्फुरद्धास्करः ।
पीनदोःस्तम्भयोरुल्लसच्चन्दनः पातु वः सर्वतो देवकीनन्दनः ॥ १७ ॥

संसृतेस्तारकं तं गवां चारकं वेणुना मण्डितं क्रीडने पण्डितम् ।
धातुभिर्वेषिणं दानवद्वेषिणं चिन्तय खामिनं बल्लवीकामिनम् ॥ १८ ॥

उपातकवलं परागशबलं सदेकशरणं सरोजचरणम् ।
अरिष्टदलनं विकृष्टललनं नमामि तमहं सदैव तमहम् ॥ १९ ॥

विहारसदनं मनोज्ञरदनं प्रणीतमदनं शशाङ्कवदनम् ।
उरःस्थकमलं यशोभिरमलं करात्तकमलं भजस्व तमलम् ॥ २०॥