पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

यथा मम- 'सरसः स्मरसारतरो वयसः समयः स्मृतिशेषदशापतितः । गलिताखिलरागरुचिर्विजने परितोऽट कपालकरः सुमते ॥' संलक्षितं जतजरैर्द्वादशाक्षरमक्षरै: । छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥ यथा मम- 'जनस्य तीव्रातपजार्तिवारणा जयन्ति सन्तः सततं समुन्नताः । सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ।।' अभिव्यक्तं नमभरैरक्षरैर्द्वादशाक्षरम् । वदन्ति वृत्तजातिज्ञा वृत्तं द्रुतविलम्बितम् ॥ २७ ॥ यथा मम- 'नभसि भर्गगलच्छविभिर्घनैर्दुतविलम्बितगैः परिवारितः । सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोर्मिभिः ॥' समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैखिभिः । त्रयोदशाक्षरं नाम्ना कीर्तयन्ति प्रहर्षिणीम् ॥ २८ ॥ यथा मम- 'मानौजःसुरभिगुणैर्यशःसितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता । सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परप्रहर्षिणी श्रीः ॥' अभिज्ञातं तभजजैरन्तासक्तगुरुद्वयम् । चतुर्दशाक्षरं वृत्तं वसन्ततिलकं विदुः ॥ २९ ॥ यथा मम- 'तद्भाजि जन्मसचिवे भगवत्यनङ्गे प्राप्ते लसत्कुसुममण्डलपाण्डुरेण । भृङ्गावलीकुटिलकुन्तलसंनिवेशा कान्ता वसन्ततिलकेन विभूषिता भूः ॥'


१. समन्तात् अट भ्रमणं कुरु. २. वंशः कुलं वेणुदण्डश्च. ३. केचिच्छीघ्रगामिनः, केचिन्मन्थरगामिनस्तैः. ४. अन्ते च गुरुणा युक्तमिति शेषः, ५. अन्येषां सुखप्रदा. ४ द्वि. गु०