पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

यथा कालिदासस्य-

'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' उपजातिविकल्पानां सिद्धो यद्यपि संकरः। तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु ॥६॥ यथा श्रीमदुत्पलराजस्य- 'हृताञ्जनश्यामरुचस्तवैते स्थूलाः किमित्यश्रुकणाः पतन्ति । भृङ्गा इव व्यायतपङ्क्तयो ये तनीयसीं रोमलतां श्रयन्ति ॥' सूत्रसेवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् । कर्णं विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ७ ॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाग्रतः। करोति प्रथमं स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८॥ यथा कालिदासस्य- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' त्र्यक्षरत्यक्षरैरेव च्छेदैराभाति दोधकम् । अतोऽल्पैरधिकैर्वापि यतिं तालमिवोज्झति ॥ ९ ॥ यथा मम- 'सज्जनपूजनशीलनशोभामर्जय वर्जय दुर्जनसङ्गम् । दुस्तरसंसृतिसागरवेगे मज्जनकारणवारणमेवत् ।' अतोऽल्पाधिकैर्यथा तुञ्जीरस्य- 'वन्मुखचन्द्रनिरीक्षणवा यः सुतरामिह निर्मलनेत्रः । सर्वजनस्य पुरः स्थितमेतत्सोऽन्तकवर्त्म न पश्यति चित्रम् ॥'


१. शारदाक्षरेषु नकाररकारयोरतिस्खल्पो मेदः, तस्मात्कदाचित्तुञ्जीन इति नाम त्यातू. तुञ्जीन इति तु कश्मीराधिपते रणादित्यस्य नामान्तरमस्ति. 'तस्यानुजो धरणि- भृद्रणादित्यस्ततोऽभवत् । तुञ्जीनापरनामानं यं जनाः प्राहुरजसा ॥' इति राजतरङ्गिणी (३।३८८). रणादित्यनामाङ्कितः श्लोकः सुभाषितावलीमध्ये वर्तते, तस्माद्रणादित्यः क. विरासीदिति स्फुटमेव.