पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

विसर्गहीनपर्यन्ता मालिनी न विराजते । चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२ ॥ यथा भट्टवल्लटस्य- 'घरमिह रवितापैः किं न शीर्णासि गुल्मे किमु दवदहनैर्वा सर्वदाहं न दग्धा । यदहृदयजनौघैर्वृन्तपर्णानभिज्ञै- रितरकुसुममध्ये मालति प्रोम्भितासि ॥' संपूर्णा सा यथा कालिदासस्य- 'अथ स ललितयोषिद्भूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः ।।' द्वितीयाधं समस्ताभ्यां पादाभ्यां मालिनी वरा । प्रथमार्थे समस्ताभ्यां पादाभ्यामवरा मता ॥२३॥ द्वितीयार्घे समस्तपादा यथा गन्दिनकस्य- 'करतरलितबन्धं कञ्चकं कुर्वतीनां प्रतिफलितमिदानीं दैपमातासमर्चिः । स्तनतटपरिणाहे भामिनीनां भविष्य- न्नखपदलिपिलीलासूत्रपातं करोति ॥' प्रथमार्घे समस्तपादा यथा राजशेखरस्य- 'इह हि नववसन्ते मञ्जरीपुञ्जरेणु- च्छुरणधवलदेहा बद्धहेलं सरन्ति । तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारम् ।।' अज्ञोऽप्यलक्ष्यं मालिन्यां वीणायामिव विस्वरम् । श्रुत्वैवोद्वेगमायाति वाचा वक्तुं न वेत्ति तम् ॥ २४ ॥