पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

वृत्तरत्नावली कामादस्थाने विनिवेशिता । कथयत्यज्ञतामेव मेखलेच गले कृता ॥ १३ ॥ नहि नाम नवोन्मेषिकुचायाश्चारुचक्षुषः । चिरत्यक्तस्मराचारे जराजीर्णकचे रुचिः॥ १४ ॥ तस्मादत्र यथास्थाने विनियोगाय संगतिः । उदाहरणदिङ्भात्रैर्दर्शिताभिमता सताम् ॥ १५॥ आरम्भे सर्गबन्धस्य कथाविस्तरसंग्रहे । शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् ॥ १६ ॥ आरम्भे यथा भर्तृमेण्ठस्य- 'आसीदैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं बाह्वो: सितच्छत्रस्मिताः श्रियः ॥' कथाप्रसङ्गे यथाभिनन्दस्य- 'तस्यां निजभुजोद्योगविजितारातिमण्डलः । आखण्डल इव श्रीमान्राजा शूद्रुक इत्यभूत् ॥' शमोपदेशे यथा मम- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्ज्योतिरान्तरम् ॥ शृङ्गारालम्बनोदारनायिकारूपवर्णनम् । वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य- 'मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥' वसन्तवर्णनं यथास्यैव- 'बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥'


१. कादम्बरीकथासारकर्ता वृत्तिकारापरनाम्नो जयन्तभट्टस्य सूनुरभिनन्दकविः कश्मीरदेशे ख्रिस्तसंवत्सरीयसप्तमशतकसमाप्तौ बभूव. रामचरिताख्यकाव्यस्य कर्ता तु शतानन्दसूनुः कश्चिदन्योऽभिनन्दः,