पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
सुवृत्ततिलकम् ।

रथोद्धता विभावेषु भव्या चन्द्रोदयादिषु । षाड्गुण्यप्रगुणा नीतिर्वंशस्थेन विराजते ॥ १८ ॥

चन्द्रोदये यथास्यैव- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥'

नीतिर्यथा भारवेः- "श्रियः कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥'

वसन्ततिलकं भाति संकरे वीररौद्रयोः । कुर्यात्सर्गस्य पर्यन्ते मालिनीं द्रुततालवत् ॥ १९ ॥

वीररौद्रयोर्यथा रत्नाकरस्य- 'जृम्भाविकासितमुखं नखदर्पणान्त- राविष्कृतप्रतिमुखं गुरुरोषगर्भम् । रूपं पुनातु जनितारिचमूविमर्श- मुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ॥'

सर्गान्ते यथा कालिदासस्य- 'अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी

नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥'


१. अद्यापि भारविकवेः समयो न निश्चितः, परंतु ३७३५ मितकलिवर्षेषु गतेषु ५५६ मिते च शककाले, अर्थात् ६३४ मिते ख्रिस्तसंवत्सरे, समुत्कीर्णे कस्मिंश्चित्पाषाणलेखे 'येनायोजि नवेऽश्मस्थिरमर्थविधौ विवेकिना जिनवेश्म । स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥' इयमार्यागीतिर्वर्तते. तस्मात्सप्तमशतकप्रारम्भेऽपि कालिदासभारवी प्रसिद्धावास्ताम्. स च पाषाणलेखः 'धी इण्डियन् आण्टिक्वेरी'नामकपुस्तकस्य पञ्चमे भागे सप्ततिमिते पृष्ठे मुद्रितोऽस्ति. तत्रैव तद्विस्तरो द्रष्टव्यः.