पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यमाला ।

वृत्तच्छत्रस्य सा कापि वंशस्थस्य विचित्रता ।
प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ॥ ३१ ॥

वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी ।
रत्नाकरस्योत्कलिका चकास्त्याननकानने ॥ ३२ ॥

भवभूतेः शिखरिणी गिरर्गलतरङ्गिणी ।
रुचिरा घनसंदर्भे या मयुरीव नृत्यति ॥ ३३ ॥

सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति ।
सदश्वदमकस्येव काम्बोजतुरगाङ्गना ॥ ३४ ॥

शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः ।
शिखरीव परं वक्रैः सोल्लेखैरुच्चशेखरः ॥ ३५ ॥

इत्येवं पूर्वकवयः सर्ववृत्तकरा अपि ।
अस्मिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादराः ॥ ३६ ॥

सुवर्णार्हप्रबन्धेषु यथास्थाननिवेशिनाम् ।
रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः ॥ ३७ ॥

तस्माद्यथायं विनियोगमार्गः प्रदर्शितो वृत्तनिवेशनेषु ।
तथैव कार्यः कविभिः कृतज्ञैरवश्यवाचां नियमस्तु नायम् ॥ ३८ ॥

इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि ।
महाकवेरप्यतिसूक्ष्मतत्त्वविचारहर्षप्रदमेतदुक्तम् ॥ ३९ ॥

इत्यौचित्यप्रचुररचनाविश्रुतश्रव्यवृत्त-
व्यक्तिः शक्तिप्रसृतवचसां दर्शिता संग्रहेण ।
क्षेमेन्द्रेण प्रणयिविपदां हर्तुराश्चर्यकर्तु-
र्भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस्य राज्ये ॥ ४० ॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके नृत्तविनियोगो नाम तृतीयो विन्यासः ।