पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७५

पुटमेतत् सुपुष्टितम्

अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-
र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः ।
एषा वैकटिक स्फुटैव पुरतः सा पामराणां पुरी
यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः ॥ ४७ ॥

यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां
धत्ते धैर्यधुरां जगत्त्रयजयस्मेरः स येन स्मरः ।
तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं
नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम् ॥ ४८ ॥

यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः
को वैरिञ्चविमानहंस भवतस्तस्मिन्निवासग्रहः ।
यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि
स्वच्छन्दं तव सिद्धसिन्धुसलिले तत्रोचिताः केलयः ॥ ४९ ॥

वापीं दूरे किरति कुरुते नो मृणालीषु लीलां
नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम् ।
किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः
क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः ॥ ५० ॥

शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-
रस्फोटि स्फटिकामल: करटिनां यस्मिन्नवाप्तोदये ।
तं दृष्ट्वैव कुंरङ्गकेतनमहो मुग्धः स दुग्धाम्बुधिः
किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोःकन्दलः ॥ ५१ ॥

तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो
यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात् ।
युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्त्रान्ङ्कुरे
त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम् ॥ ५२ ॥


१. हे रत्नवणिक्. २. हे ब्रह्मदेववाहन हंस. ३. गङ्गाजले. ४. हस्तिनाम्. ५. चन्द्रम्. ७ द्वि० गु०