पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८३

पुटमेतत् सुपुष्टितम्

किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते
वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम् ॥ ९५ ॥

यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-
माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः ।
तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं
नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः ॥ ९६ ॥

माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं
मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव ।
तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर
स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम् ॥ ९७ ॥

अम्भोजैर्गलितं तटैर्विघटितं हंसैर्द्रुतं विद्रुतं
वापीभिर्विरतं पुरैव पतितैरद्याविलैस्त्वज्जलैः ।
हा घिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे
प्रारब्धोऽयमतानवैरभिनवैर्वारिप्लवैर्विप्लवः ॥ ९८ ॥

तापातङ्कं कलय विलयं याहि हे दुर्निवारं
वारं वारं विगलितगतिर्नेह दाहं सहेथाः ।
दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो
नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः ॥ ९९ ॥

यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां
तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः ।
साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया
पौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः ॥ १०० ॥

लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं
किं च क्रौञ्चवचःप्रपञ्चविरसं दैवादिदं ते सरः ।
तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-
लीलाचङ्क्रमणक्रमानुकरणोद्युक्ता च युक्ता गतिः ॥ १०१ ॥


१. गच्छ. २. इन्द्राण्या.