पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८६

पुटमेतत् सुपुष्टितम्
८०
काव्यमाला ।


प्रभुप्रणामे जठरं दैन्यमूलं विलोकयन् ।
प्रवेष्टुं सेवकः शङ्के विलक्षः क्षितिमीक्षते ॥ ११ ॥

सेवाध्वजोऽञ्जलिर्मूर्ध्नि हृदि दैन्यं मुखे स्तुतिः ।
आशाग्रहगृहीतानां कियतीयं विडम्बना ॥ १२ ॥

अकालागमनक्रोधविधुरेश्वरचक्षुषा ।
क्षिप्रं स्मर इवायाति सेवको दग्धभूतिताम् ॥ १३ ॥

पुनः सेवावमानानां तेन दत्तं तिलोदकम् ।
प्रविश्य वाहिनीं येन खड्गपात्रीकृतं वपुः ॥ १४ ॥

कणवृत्तिपरिक्लिष्टः कष्टं सेवकचातकः ।
घनाशानिरतो नित्यमुद्ग्रीवः परिशुष्यति ॥ १५ ॥

निःसंतोषः परित्यज्य भ्रमरः पुष्पितं वनम् ।
सेवते दानलोभेन मातङ्गमपि सेवकः ॥ १६ ॥

जडसेवापरिक्लिष्टस्तीव्रदम्भबकव्रतः ।
कृच्छ्रेण क्षणिकां प्रीतिमासादयति सेवकः ॥ १७ ॥

नित्यमुन्नतिकामोऽपि मानभङ्गादधोमुखः ।
यत्सत्यमुभयभ्रष्टस्त्रिशङ्कुरिव सेवकः ॥ १८ ॥

स्वमांसविक्रयासक्तः प्रभुवेतालघट्टितः ।
निःसत्त्वः प्रलयं याति रात्रिसेवासु सेवकः ॥ १९ ॥

भूमिशायी निराहारः शीतवातातपक्षतः ।
मुनिव्रतोऽपि नरकक्लेशमश्नाति सेवकः ॥ २० ॥


१. ईश्वरो धनवान्, शिवश्च. २. भूतिर्भस्म, संपच्च. ३. वाहिनीं सेनां प्रविश्य येन वपुः खड्गपात्रीकृतम्. युद्धे मृत इत्यर्थः. तेन सेवाजनितावमानानां तिलोदकं जलाञ्जलिर्दत्तम्, अन्योऽपि वाहिनीं नदीं प्रविश्य खङ्गपात्रं गण्डकचर्मनिर्मितमर्घ्यपात्रमादाय पितृभ्यस्तिलमिश्रमुदकं ददाति. ४. घना निबिडा आशा, अथ च घनानां मेघानामाशा. ५. मातङ्गो गजः, चण्डालश्च. ६. त्रिशङ्कुर्नाम कश्चिद्राजा स्वर्गं प्राप्तः, ततश्च देवैः पुनरपि मर्त्यलोके पात्यमानो विश्वामित्रवचसा मध्ये स्तम्भितोऽद्यापि दक्षिणदिशि नक्षत्ररूपेण तिष्ठति-इति पौराणिकाः.