पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९३

पुटमेतत् सुपुष्टितम्

शैलप्रस्थे जलदतमसा छादिताशाम्बरेण
स्निग्धश्यामाञ्जनचयरुचासादिताभिन्नभावाः ।
यामिन्योऽमूर्विहितवसतेर्वासराश्चाजनेऽस्मि-
न्संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥

तन्मत्वैवं व्रज निजपुरीं द्वारकां सत्सहायै-
र्गोविन्दाद्यैः सममनुभवासाद्य राज्यं सुखानि ।
कामं तेषां यदुवर पुनःसंगमे भाविनी ते
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥

वन्याहारा धृतमुनिजनाचारसाराः सदारा
यां नाथान्ते वयसि सुधियः क्षत्रियाः संश्रयन्ति ।
किं तारुण्ये गिरिवरभुवं सेवसे तां तपोभिः
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥

कात्र प्रीतिस्तव नगवरे चारु तद्द्वारकाया-
स्त्यक्त्वोद्यानं युवयदुमनोन्मादि यत्रासुरारिः ।
निर्जित्येन्द्रं ससुरमनयत्पारिजातं द्युलोका-
द्दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १४ ॥

यत्प्रागासीदनलविलसद्भूषणाभाभिरामं
भात्यारोहन्नवघनजलोद्भिन्नवल्लीचयेन ।
तत्ते नीलोपलतटविभाभिन्नभासाधुनाङ्गं
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥

रम्या हर्म्यैः क्व तव नगरी दुर्गशृङ्गः क्व चाद्रिः
क्वैतत्क्राम्यं तव मृदु वपुः क्व व्रतं दुःखचर्यम् ।
चित्तग्राह्यं हितमिति वचो मन्यसे चेन्ममालं
किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥

कुर्वन्पान्थांस्त्वरितहृदयान्संगमायाङ्गनाना-
मेनं पश्याधिगतसमयः खं वयस्यं मयूरम् ।