पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९४

पुटमेतत् सुपुष्टितम्
८८
काव्यमाला ।

जीमूतोऽयं मदयति विभो कोऽथवान्योऽपि काले
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥

पूर्वं येन त्वमसि वयसा भूषितोऽङ्गे समग्रे
तैस्तैः क्रीडारससुखसखैर्भव्यभोगैरिदानीम् ।
तत्तारुण्यं सफलय पुरीं द्वारकामेत्य शीघ्रं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १८ ॥

किं शैलेऽस्मिंस्तव निवसतो न व्यथा कापि चित्ते
संत्यज्य स्वां पुरमनुपमां द्योतते नाथ यस्याः ।
त्वत्सौधेनासितमणिमयाग्रेण हैमोग्रवप्रो
मेघश्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९ ॥

यामालोक्य स्वगृहगमनायोत्सुकाः स्युस्त्वदन्ये
पश्याकाशे जलदपटलेऽस्मिन्बलाकावलीं ताम् ।
अन्तर्विद्युत्स्फुरितरुचिरे सुप्रकाशेन्द्रचापे
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥

युक्तं लक्ष्म्या मुदितमनसो यादवेशाः सभाया-
मासीनं यं निजपुरि चिरं त्वामसेवन्त पूर्वम् ।
संप्रत्येकः श्रयसि स नगं नाथ किं वेत्सि नैवं
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २१ ॥

मुक्तातङ्कास्तव यदुविभो जिह्वयाङ्गं लिहन्तः
संक्रीडन्ते शिशव इव येऽङ्के समाधिस्थितस्य ।
संप्रत्येते पुरमभियतो विप्रयोगेण नेत्रैः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २२ ॥

एतत्तुङ्गं त्यज शिखरिणः शृङ्गमङ्गीकुरुष्व
प्राज्यं राज्यं प्रणयमखिलं पालयन्बन्धुवर्गे ।
रम्ये हर्म्ये चिरमनुभव प्राप्य भोगानखण्डा-
न्सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥