पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९५

पुटमेतत् सुपुष्टितम्

धूतोन्निद्रार्जुनपरिमलोद्गारिणः पान्थसार्था-
न्ये कुर्वीरञ्जलदमरुतो वेश्मसंदर्शनोत्कान् ।
तैः संस्पृष्टो विरहिहृदयोन्माथिभिः स्वां पुरीं नु
प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २४ ॥

नोत्साहस्ते स्वपुरगमने चेद्वियुक्ता त्वयाहं
वृद्धावेतौ तव च पितरौ तज्जनास्ते त्रयोऽमी ।
म्लानास्याब्जाः कलुषतनवो ग्रीष्मतोयाशयाभाः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥

तन्नः प्राणानव तव मते जीवरक्षैव धर्मो
वासार्थं वः सुरविरचितां तां पुरीमेहि यस्याः ।
वप्रप्रान्ते स्फुरति जलधेर्हारि वेलारमण्याः
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २६ ॥

अस्मादद्रेः प्रतिपथमधःसंचरन्दानवारेः
क्रीडाशैलं विमलमणिभिर्भासुरं द्रक्ष्यसि त्वम् ।
अन्तः कान्तारतरसगलद्भूषणैर्यो यदूना-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २७ ॥

तस्योद्याने वरतरुचिते त्वं मुहूर्तं श्रमार्त-
स्तिष्ठेस्तुष्टो विविधतदुपानीतपुष्पोपहारैः ।
पुष्णन्नन्तश्वर परिमलोद्गारसारस्मितानां
छायादानक्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८ ॥

दृष्ट्वा रूपं तव निरुपमं तत्र पीनस्तनीनां
तासामन्तर्मनसिजरसोल्लासलीलालसानाम् ।
कर्णाम्भोजोपगतमधुकृत्संभ्रमोद्यद्विलासै-
र्लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९ ॥

तस्मिन्नुद्यन्मनसिजरसाः प्रांशुशाखावनाम-
व्याजादाविष्कृतकुचवलीनाभिकाञ्चीकलापाः ।