पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९७

पुटमेतत् सुपुष्टितम्
९१
नेमिदूतम् ।


उद्यानानामुपतटभुवामुज्जयन्त्याः समन्ता-
दाधुन्वद्भिर्विपुलविकसन्मालतीजालकानि ।
अङ्गान्मार्गश्रमजलकणान्सेव्यसेऽस्यां हरद्भि-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३७ ॥

तत्रोपास्यः प्रथितमहिमा नाथ देवस्त्वयाद्यः
प्रासादस्थः क्षणमनुपमं यं निरीक्ष्य त्वमक्ष्णोः ।
शृण्वन्प्रेक्षामुरजनिनदान्वारिवाहस्य तुल्या-
नामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३८ ॥

त्वद्रूपेणापहृतमलसो विस्मयात्पौरनार्यः
सौन्दर्याधःकृतमनसिजे राजमार्गं प्रयाति ।
प्रातस्तस्यां कुवलयदलश्यामलाङ्गे सलील-
मामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३९ ॥

तस्याः पश्यन्वरगृहततिं तां व्रजेर्द्यां स्पृशन्ती-
मैक्यं प्राप्यासितरजनिषु प्रस्फुरद्रत्नदीपाः ।
विद्योतन्ते निहततिमिरव्योममार्गश्च लोके
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ४० ॥

पौरैस्तस्यां रथमुपहृतं रम्यमास्थाय यान्तं
द्रष्टुं ग्राम्याः पथि युवतयस्त्वामुपैष्यन्ति तस्मात् ।
शब्दैस्तत्र स्खलदुपलजैरर्थिसार्थीकृतश्री-
स्तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ४१ ॥

त्वामायान्तं पथि यदुवराः केशवाद्या निशम्य
प्रीता बन्धूंस्तव पितृमुखान्सौहृदान्नन्दयन्तः ।
साकं सैन्यै रथमभिमुखं प्रेषयिष्यन्ति तूर्णं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ १२ ॥

श्रुत्वा तीरे तदनुजलधेरागलं सोपहारो
मान्यो मन्त्री यदि बलपुरात्सीरिणस्त्वामुपेतः ।