पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला अनुत्तमोहराशयो भवन्ति यामनाश्रिताः अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७ ॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो. गौरी हियात्क्रियाः॥१८॥ (संदानितकम् ) सा गौरी वो युष्माकमनन्तरागतापायाः अनन्तरमविद्यमानान्तरं कृत्वा आगता. प्राप्ता अपाया 1विघ्ना यासां ताः । 2अनिष्पन्ना एवोत्पन्नविनाशा याः क्रियाश्चेष्टा ह्रियादप- हरतुः । दुष्टक्रिया विनाशयत्वित्यर्थः। या देवीमनाश्रिताः शरणं न प्राप्ता नरा अनुत्तमोह- राशयोऽप्रेरिताज्ञाननिवहा अविनाशिततमसो भवन्ति संपद्यन्ते । यथा गौर्या अनुत्तमो.- ड3विमानप्रधानों हराशयों महादेवचित्तं चिरं बहुकालं रञ्जित आवर्जितः । तथा या देवी भवापदः संसारदुःखात् । भव एवापत् भवस्येति वा । कीदृश्या भवापदः । अनन्तोऽपर्य- न्तो रागत्तापः स्मरार्तिदाहो यस्यास्ततस्तारयित्री उद्धर्त्री । भवापद इति कृद्योगे कर्मणि षष्ठी । अथवा अनन्ता यै रागजनितास्तापातानायस्यति क्षिपतीति देवीविशेषणम्॥ १७॥१८ यामायासजिदासक्तशोकजोलस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९ ॥ (गोमूत्रिकाबन्धः) सामरागमनायासं त्यक्त्वा साधै सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ।। २० सामोद्रयाजया शतैः शङ्कः शत्रौ हते यया। सामोदया जयाशा तैगीर्वाणैर्गर्वंतो जहे ॥ २१ ॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२ ॥ साव्याद्गौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरोगच्छन्न रोगच्छन्दमेति च ॥ २३ ॥ (पञ्चभिः कुलकम्) सा गौरी गिरितनया युष्मान्भवतः सदा सततमव्यात्पायात् । या भक्तलोकर्जालस्य १. "विघाता'.क. १. अनिष्पन्नविनाशा याः क. ३. विद्याप्रधानो क.४, "उ. दरन्ती ख. ५. 'जातस्य क. ६. 'ययो यो ८'जातस्य क..