पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अनुजैः पूजितायेदं प्रेयसे धर्मजन्मने । ददौ स्मेराननं सुर्भ्रूमुदा मदिरलोचना ॥ ११ ॥ इदमात्तवतस्तस्य दत्तं दयितया तया । विचकास हृदम्भोजसुखाञ्जनयनाम्बुजम् ।। १२ ।। न स्पर्शन न रूपेण न सौरमभरेण च । तथा तं प्रीणयामास तद्वितीर्णतया यथा ॥ १३ ॥ अथ सौगन्धिकैरेव विहर्तुं विहितस्पृहा ।.. सितेनासिञ्चदधरं विवक्षास्फुरितं प्रिया ॥ १४ ॥ प्रेम्णातिशयमग्नेन धर्मराजेन तां प्रति । समुन्नीतविवक्षेण वचश्चतुरमाददे ॥ १५ ॥ यत्ते स्मितसुधासिक्तं स्फुरत्यधरपल्लवम् । तदिन्दुवदने किंचिद्विवक्षन्तीव लक्ष्यसे ।। १६ ॥ निजाधीने जने सुभ्रूः किंच संकोचमञ्चसि । विपञ्चीवाणि कल्याणि विकासय तदाशयम् ॥ १७ ॥ विन्यस्यन्ती भरं भीमे दृशा कर्णान्तिकस्पृशा । जगाद मधुरस्निग्धं तमवन्ध्यमनोरथा ॥ १८ ॥ नाथ निर्मातुमिच्छामि साधुसौगन्धिकस्रजः । कान्त कामं मम स्वान्तमेतैः खेलितुमीहते ॥ १९ ॥ दृशैवाशयमुन्नीय तस्या धर्मानुजन्मना । वितेने सूनृता वाणी मन्वानेनात्मनो जयम् ॥ २० ॥ चारुकह्वारसंभार मुदे हृदयदेवते । अहं समाहरिष्यामि हंसमालासमत्विषम् ॥ २१ ॥ इत्युक्त्वा वन्दमानस्य पवमानात्मजन्मनः। गदायुद्धप्रसिद्धस्थ बलसंपत्तिशालिनः ।। २२ ॥ प्रस्थानं भीमसेनस्य प्रयुञ्जानः शुभाशिषम् । अनुमेने धर्मसूनुः सत्यवादिधुरंधरः ॥ २३ ॥