पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मधुकर तवैव धन्यं जनुरभितो बन्यमन्यदुत्सृजतः । यस्य प्रेमाबन्धो मालत्यां यन्न तस्याश्च ॥१०१ !! किं कृतमनेन मरुता माधविकाकुसुमसौरभं वहता । आश्लिष्टभ्रमरीकोऽप्यौत्कण्ठ्यं मधुकरो नीतः ॥ १०२ ॥ स्थास्यति कुवलयकलिंका कर्णे तव तावदेव कमलाक्षि । विकसति न यावदेषा चन्द्रकरस्पर्शदुर्ललिता ॥ १०३ ।। आश्लिष्य जिघ्र पिब मधु मधुकर तोषोदयाय मालत्याः निर्दय सुगन्धिवल्लीरेताश्चरणैः किमाक्षिपसि ॥ १०४ ईशस्याप्युपकुरूते क्वचित्कलावान्निसर्गकुटिलोऽपि । भ्रूर्भवति चन्द्रलेखा सुन्दरि शंभोस्तृतीयदृशः ।। १०५ ॥ केतकि तव यदि न कृतं परिशीलनमादरान्महेशेन । इयता न कापि हानिः सौरभ्याकृष्टमधुपायाः ॥ १०६ ॥ प्रकटितकपटाचार रथ्यामुखरचितमन्दिरद्वारम् । युवतीहृदयस्तेन युवानमेनं नमस्कुर्मः ॥ १०७ ॥ कति कति नात्र युवत्यो जडीभवन्ति स्खलन्ति वेपन्ते । इदमुदवसितोपान्तं तत्साध्व्यो दूरमुज्झन्ति ॥ १०८ ॥ अधिभवनमुच्चपीठे पामरवध्याहृते सुखासीनः । अभिलषितमुत्तमर्णः कटाक्षयस्तामवाप्नोति ॥ १०९ ॥ कुसुमेषुशास्त्रचर्चा सरसहृदा भावनीयं यत् । तव्द्यरचि "सुन्दरमुत्प्रेक्षावल्लभेनेदम् ॥ ११ ॥ भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्विजद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥ १११ ॥ इति श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकं समाप्तम्