पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । पदाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् । महेशि नवयावकद्रवभरेण शोणीकृतां नमामि नखमण्डलीं चरणपङ्कजस्थां तव ।। ६० ॥ आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै- देवस्त्रीभिः प्रयत्नादगुरुसमुदितैर्धूषितां दिव्यधूपैः उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां चञ्जत्कह्लारमालां परशिवरसिके कण्ठपीऽठेर्पयामि ॥ ६१ ॥ गृहाण परमामृतं कनकपात्रसंस्थापितं समर्पयः मुखाम्बुजे विमलवीटिकामम्बिके । विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२ ॥ आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्ज्जुलगतिप्रोल्लासिमूषाम्बरा । आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा मच्चित्ते स्थिरतामुपैति(तु) गिरिजा यान्ती सभामण्डपम् ॥६३|| चलन्त्यामम्बायां प्रचलत्ति समस्ते परिजने सवेगं संयाते(१) कनकलतिकालंकृतिभरे । समन्तादुत्तालस्फुरितपदसंपातजनितै- र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ।। ६४ ॥ चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते। रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥६५॥ ३. 'र्दिव्यनीभिः' क २. 'कलितललितालंकृतितरे' क. ३ 'रणत्कारैस्तारैर्गु- णगुणितमा क. ४. 'समुद्गीरिते क.