पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय । इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यैः मम ॥ ६६ ॥ मन्दं चारणसुन्दरीभिरभितोयान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् । वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै- र्लिप्स(र्दित्स)न्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ॥६७॥ अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे । संमर्दे शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ ६८॥ अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः । कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरञ्च्यादयः ॥ ६९ ॥ कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा- देकस्मै भवनिस्पृहाय परमानन्दस्वरूपां गतिम् । अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥ ७० ॥ नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये । नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुदग्रकान्ति कलये यत्किंचिदाद्यं महः ॥ ७१ ।। १. मन्दोच्चार ख-ग:-२. 'सानन्दं शनकैरपि स्वधुरतो' क. ३. 'किंनरीकुलमिदं' 'निलये' का