पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

गीतिशतकम् । अमितां ममतां मम तां तनु तां तनुतां गतां पदाब्जं ते । कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४ ॥ मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् । तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ।। ५ ।। न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् । असकृत्प्रणम्य याचे त्वञ्चरणाब्जस्य कान्तिमत्यम्ब ॥ ६ ॥ अभजमहं किं सारे कंसारे वीपदेऽपि संसारे । रुचिमत्तां शुचिमत्तामहह त्त्वं पाहि कान्तिमत्यम्ब ॥ ७॥ मामसकृदाप्रसादाद्दुष्कृतकारीति भावमन्यस्व । स्मर किं न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८ ॥ करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् । भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९ ॥ अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि भवि त्वम् । समतेर्प्यया प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ।। १० ।। द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे । हित्वा पयोदपङ्तिं स्तोकस्य गतिः क कान्तिमत्यम्ब ॥ ११॥ कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किस् । किं त्वामुपालभेऽहं विधिर्गरीयान्हि कान्तिमत्यम्ब ।। १२ ।। तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या । यदुपेक्षसे त्रिलोकीं मातर्मा देवि कान्तिमत्यम्ब ॥ १३ ॥ निन्दामि साधुवर्गे स्तौमि पुनः क्षीणषङ्गसंसर्गम् । चन्दे किं ते चरणे किं स्याप्रीतिस्तु कान्तिमत्यम्ब ॥ १४ ॥ गीर्वाणवृन्दजिह्वारसायनस्वीयमाननीयगुणे। निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५ ॥ त्रिनयनकान्ते शान्ते तान्ते स्वान्ते ममास्तु वद दान्ते । कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६ ॥