पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । अथ नसि कुरु मुक्तां दन्तवासोनुषक्तां स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२ ॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगतानां मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्दं मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३ ॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शंभोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो जनयतु मुदमुच्चैः कुङ्कुमं रङ्कुनेत्रे ॥ २४ ॥ युगपदुपगतेन्द्रोपेन्दरुद्रादिमौलि- स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूषा प्रेतपद्मासनस्य ।। २५ ॥ अहमहमिकयाधः पातुकानां सुराणां प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६ ॥ अगुरुघृसृणचोरीशीरगोरोचनाभि- र्मलयजमृगनामिस्फीतकर्पूरपूरैः। कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं पटुतरपटवासैर्वासये तेऽङ्गकानि ।। २७ ॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुवकतुलसीभिः केतकीबिल्वपत्रै- र्दमनकशतपत्रैरर्चये त्वत्पदाब्जम् ॥ २८ ॥ १ मृगविशेषनयने.