पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विपञ्चीषु सप्त स्वरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकान्ता: । क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥५८॥ अभिनवकमनीयैर्नर्तनैर्नकीनां क्षणमथ रमयित्वा चेत एवं त्वदीयम् । स्वयमहमपि चित्रैर्नृत्यवाद्यप्रगीतै- र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५९॥ तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ६० ॥ पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तो सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परिकल्पयामि ॥ ६१ ।। रक्तोत्पलारक्तलताप्रमाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् । अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ।। ६२ ।। चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षे तनोतु ।। ६३ ।। अथ मणिमयमञ्चकामिरामे द्युतिमति पुष्पवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन्भगवति वासगृहेऽस्तु ते निवासः ॥६४॥ तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः । अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥ अथ मारुतशीतवासितं निजताम्बूलरसेन रञ्जितम् । तपनीयमये हि पट्टके मुखगण्डूषजलं निधीयताम् ॥ ६६ ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदे निधाय पादौ । विस्तीर्णे मृदुतरलोत्तरच्छदेऽस्मिन्पर्यङ्के कनकमये निषीद मातः ॥६७॥ क्षणमथ जगदम्ब मञ्चकेऽस्मिन्मृदुतरतूलिकया विरोजमाने । अतिरहसि दा शिवेन सार्धे सुखशयनं कुरु मां हृदि स्मरन्ती ।।६८||