पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। बुधे । नु वित। हे नानानुमे, नानाविधा अनुमाः संज्ञा यस्या इत्लनुमा अनेन च नाम्ना नो नाम निमानं न पर्याप्तिः । नामशब्दोऽभ्युपगमे । एकेनोमानाम्ना कतमा पूजा भवेदित्यर्थः । तथा मौनेन तपसा पूताद्युपलक्षणोऽत्र मौनशब्दः । नियमेत्र भावः । अमम- माननिन्नमननन्नानामिनानूनिमे मममानं ममताज्ञानमहंकारस्तेन निम्नमल्पीभूतं मममान- निम्नम् नञ्समासे कृते अमममाननिम्नं यन्मननं ज्ञानं तदेवान्नं शरीरवृत्तिर्येषां तपसा- नहंकारज्ञानवृत्तीनाम् इनानूनिने ऊनस्थ भाव ऊनिमा न ऊनिमा अनूनिमा । इना- दादित्यादनूनिमा यस्याः । टावन्ताया आह्वानं इनानूनिमे सूर्यसमाने । तथा हे मुन्मि- त्राननमाः मुदा हर्षेण मिन्नः स्निग्ध आननमा मुखचन्द्रो यस्याः । हे आन- न्दमयीत्यर्थः । अन्यच्च हे मुनिमनोमानाननोन्नामः तदस्या अस्ति' शीलं वेति तन्ना- मिनी । मुनिमनसामेषा ज्ञानमाप्याययतीति भावः । तस्य आह्वानमिति संबन्धः ॥४६॥ तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या । सुधीरस्यति धीरस्य महामोहमयी त्वचम् ॥ ४७ ।। तां देवीमहं वन्दे प्रणतोऽस्मि या धीरस्य विषयानपहृतस्य सुधीः शोभनबुद्धिरूपा. संती ज्ञानरूपं बोधमयं नवं प्रत्यग्रं देहं शरीरं विधाय निर्माय महामोहमयीं महदज्ञान रूपां त्वचं कृत्तिमस्यति क्षिपति नाशयति ।। ४७ ॥ यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् । नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८ ॥ तां गिरिशस्य जायां हरस्य पत्नी अहमस्मि भक्तिमास्थाय सेवां पुरस्कृत्य सत् शोभनं कृत्वा वाङ्मनःकायैरिति नौमि स्तोमि । यां देवीं नुत्या प्रणम्य हृद्यार्थसज्जायां मनोहरव- स्तुप्रवृणायां वाचि शस्यतां यान्ति प्रशंसां लभन्ते ।। ४८ ।। यदानतोऽयंदानतो न यात्ययं नयात्ययम् शिवे हितां शिवहितां स्मरामितां स्मरामि ताम् ॥ ४९ ॥ तां देवीं स्मरेण कामेनामितामपरिच्छिन्नामनभिभूतां स्मरामि चिन्तयामि ध्याये । यदानतो यस्याः प्रणतः पुमान् अयदानतोऽयो दैवमनुकूलं तस्य दानं क्षयः । दीङ् आते (धातोः?) रूपम् । अतोऽयदानतो हेतोर्नयात्ययं नीतिविधातं न याति न गच्छति । की- दृशीं देवीम् । शिवे शंकरे हितामनुकूलाम् । तथा शिवं श्रेयःप्रदमीहितं यस्यास्ताम्॥४९॥ सर स्वतिप्रसादं मे स्थितिं चित्तसरस्वति । सरस्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५० ॥ हे सरस्वत्याख्ये देवि, स्वतिप्रसाद सुष्टु अतिशयेन च प्रसादं सर गच्छ । स्वतिशब्दो सुतरामर्थे । तथा मे चित्तसरस्वति चित्तमेव सरस्वान्समुद्रस्तत्र मनःसमुद्रे स्थिति पदं कुर निवत्स्व । क्षेत्रं शरीरं तदेव कुरुक्षेत्रसंज्ञं पुण्यस्थानं तत्र नित्यावस्थानात्सरस्वती न दीव सरस्वतीतस्या आमन्त्रणम् । शरीरे नित्योदितवाग्रूपतया स्थितेति भावः ॥५०॥