पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। हैं देवि, विराजसे विगतरजोविकारे हृदि हृदये त्वं भासि शोभसे । किं कृत्वा । स- म्यग्विधिवत्सत्त्वं चेतोगुणमुन्मील्य प्रकटीकृत्य । तथा द्विषां शत्रूणां संबन्धिनीं वाहिनीं चमूमरीणां सारवतीं सेनां सेश्वरां त्वमुदकम्पयः कम्पयांचकार कम्पितवती । भासि वि- राजसे, द्विषामरीणाम् , सेनां वाहिनीम् , उदकं पयः, इति पुनरुक्तभासनात्पुनरुक्तवदा- भासोऽयं न तु पुनरुक्तः ॥ ५५ ॥ दूरागत रसा धन्यः सेवते यस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६ ।। हे देवि, यो धन्यः पुरुषः पुण्यवास्तव भवत्याः स्तुतीः प्रशंसाः सेवते विदधाति तस्य पुंसः सिद्धयो मनोरथा अणिमाद्या वा कल्पन्ते संपद्यन्ते । किंभूताः सिद्ध्यः । दूरागतरसा दूरसत्यर्थमागतो रसः संक्तिर्यासु ताः। अभिलषणीया इति यावत् । तथा दूरानो दुष्टासक्तितस्तर उत्तरण साधयन्ति संपादयन्ति तच्छीलास्ताः ॥ ५६ ॥ मोह हत्वास्पदं यासि सात्वमम्ब रवासिना । या न, संस्तूयसे केन सा त्वम्बरवासिना ॥ ५७ ।। हे अम्बं मातः, सा त्वं वक्ष्यमाणस्वरूपा केनाम्बरवासिना धुसदा देवेन न स्तूयसे सर्वैरपि देवैः स्तूयंस इति भावः । सा त्वं का । या भवती रवासना अनाहतखङ्गेन भी- हमज्ञानं हत्वा विनाश्य प्रकाशात्मकसत्त्वगुणमयमास्पदं स्वकीयं प्रकाशस्थानं यासीत्यर्थः । तथा चोक्तम्-'अनाहते पात्रकर्णे भग्नशब्दे सरिद्तुते (1) 1 शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति ॥ ५७॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेन विमला स्थिता दृश्यसि विद्वताम् ॥ ५ ॥ (अपशब्दाभासः) हे देवि, असि त्वम् । विद्वताम् वेदनं वित् ज्ञान विद्यते येषां तेषां संबन्धिन्यां दृशि बुद्धौ प्रज्ञात्मना ज्ञानरूपेण विवेकात्मना प्रकाश्यं प्रकटीकृत्वा इनविमला आदित्यरूपा ति- ष्ठसीत्यर्थः । कीदृशी त्वम् । गृह्यास्वत्सेवोद्यता ये पुमांसस्त एव सस्यं शालिस्तस्य खेद आयासस्तस्य च्छेदे विनाशेऽम्बुदावलीत्यर्थः । गृह्य, प्रज्ञात्मनेन, दृश्यसि, विद्वताम् , इ- त्यपशब्द्वदाभासनादपशब्दाभासः ३ ५८ ॥ भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैव तु कचित् ।। ५२ ।। हे भवानि शर्वभार्ये, ये जना निरन्तरमविरतं कृत्वा तव भवत्याः प्रणामलालसाः प्रणतिपरास्ते मनस्तमीमलालसा चित्तमोहकलङ्कनिःशोभा न क्वचिन्न कुत्रचिद्भवन्ति संपद्यन्ते ।। ५९